________________
निर्णयनिरूपणम् ।
२०५
TS
प्रमाणतकीभ्यां स्वपरपक्षसाधनोपालम्भ बिमर्श पूर्वको यथार्थध्यवसाय निर्णयोऽत्राभिमतः । परीक्षासाध्यमर्थावधारणं निर्णय इत्याचार्यः । तदुक्तम् । विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति ॥ १५ ॥ अथ कथालक्षमाह ।
1
ननु तत्त्वावधारणमित्येतावदेव लक्षणमस्तु किं तर्कमानाभ्यामिति विशेषणेनेत्याश हा व्याचष्टे । प्रमातकीभ्यामिति । यः प्रमाणतकीभ्यां स्वपक्षसाधनपरपक्षोपालम्भपूर्वको विमर्शपूर्वकः संशधोपमर्दक इति यावत् यथा स्थाणुरेवायमित्यादि स एव निर्णयपदार्थभिमतो नान्यो यथार्थेऽपीत्यर्थः । तेन घटाद्यवधारणन्युदासान्न विशेषण वैयर्थ्यमिति भावः । यथार्थेति सर्व यथाज्ञानव्युदासः | अर्थव्युदासाय प्रत्यय इति वक्तव्ये स्फुटार्थमध्यवसाय इत्युक्तम् । तयावर्त्यस्य यथार्थीनध्यवसायस्य व्याघातहतत्वादिति । अत्रोदयनसम्मतिमाह । परीक्षासाध्यमिति । परीक्षा तर्कमानाभ्यां विचारो विमर्श इति यावत् । तत्साध्यमिति । अत्र सूत्रसम्मतिमाह । विमृइयेति । पक्षप्रतिपक्षाभ्यां स्वपक्षसाधनपर पक्षोपालम्भाभ्यामित्यर्थः । इति निर्णयपदार्थः ॥ ७५ ॥
ननुद्देशक्रमाद्वादलक्षणे वक्तव्ये किमन्यदनुद्दिष्टमेareroor कथ्यत इत्याशङ्क्य वादादीनां त्रयाणां कथावान्तरभेदत्वात् प्रथमं कथा सामान्यलक्षणं कथयतीत्याह । कथेति । नन्वेवं चेत् कथैव त्रिविधाप्येकः पदार्थ इति पदार्थ न्यूनत्वापत्तिः अन्यथा वादादिवत् प्रमाणादिपदाश्रीवान्तरभेदानामपि पृथकूपदार्थत्वे तदतिरेक इत्युभयथापि षोडशैव पदार्थ इति नियमभङ्ग इति चेत् सत्यम्
७४