________________
तर्कनिरूपणम् ।
यो वा । अन्यतराव्यभिचारे ऽपि धूममात्राव्यभिचारिखो वह्निमात्राव्यभिचारिणो वा । वह्निमात्राव्यभिचारे ऽपि व्याव्यमात्ररूपा व्यापकमात्ररूपा उभयरूपा वा । तन्त्र न प्रथमः । सर्वव्यवहारोच्छेदप्रसङ्गात् । प्रत्यक्षयोग्यत्वे ऽनुपलम्भबाधः । व्यापकानां नित्यानां चोपाधित्वे सर्वत्र सर्वदा वह्नेः सत्त्वप्रसङ्गः । उभयाव्यभिचारिणामुभयव्यभिचारिणां धूममात्राव्यभिचारिणां
शह
मात्राव्यभिचारिण इति । साधनमात्राव्यभिचारिण इत्यर्थः । वह्निमात्राव्यभिचारिण इति । साध्यमात्राव्यभिचारिण इत्यर्थः । दृष्टान्तार्थं तु विशेषेापादानम् । एवमुसरत्रापि द्रष्टव्यम् । तत्राद्ये ऽनिष्टप्रसङ्गमाह । तत्रेति । अप्रामाणिकोपाधिशङ्कायाः सर्वत्र सुलभत्वात् स्वजनकादावपि सन्देहे पित्रादिव्यवहारा अभ्युच्छिद्येरन्नित्यर्थः । द्वितीयेऽप्यनिष्टमाह । प्रत्यक्षेति । सोऽपि कदाचिदुपलप्स्यत इति शङ्कायास्तु पूर्वोक्तातिप्रसङ्ग एव निवारक इति भावः । तृतीयतुरीययेा रप्यनिष्टप्रसङ्गमाचष्टे । व्यापकानामिति । व्यापकानामुपाधित्वे सर्वत्र नित्यानामुपाधित्वे सर्वदेति व योज्यम् । अथ पञ्चमादिविकल्पचतुष्टयं युगपद्दूपयति । उभयेत्यादि । यथेषामुपाधित्वमुच्यते तदा लक्षणाभावादाभासत्वं स्यादिति भावः । तत्राद्ये साधनाव्यापकत्वाभावात् द्वितीयचतुर्थयेोः साध्यव्यापकत्वाभावात् तृतीये तृभयाभावाच लक्षणाभाव इति विवेकः । इत्थं क्रमा
(१) व्यापक नित्यत्वपक्षयोः ।
७४९