________________
तर्कनिरूपणम् ।
A
तर्हि रूपवदपि नाभविष्यद् गगनादिवत् । यदि परमन्तरधक्ष्यन्मामपि सुरभिमकरिष्यदित्यादिस्तकाभासः । विस्तरस्त्वात्मतत्त्वविवेकपरिश्रमशालिनां सुगम एव । तत्र हि मिथेो विरोध मूलशैथिल्येष्टापादनानुकूलत्वविपर्ययापर्यवसान स्त की भासत्वादुपक्रम्य स्थूलद्रव्यमपलपता बौद्धस्य नेदं स्थलं द्रव्यं विरुद्धधर्मसंसर्गप्रसङ्गादित्यादयः प्रलापास्तकाभासाः प्रदर्शिताः । प्र
स एवायं गकार इत्यादिप्रत्यभिज्ञायाः सादृश्यमूलभ्रान्तित्वेन विपर्यय पर्यवसानानिष्टत्वयोरभावादिति । पञ्चमस्तु यदि नित्यः शब्दो न स्यात् कृतको न स्यात् कृतकश्चायमिति । अत्र प्रसङ्गस्य विपक्षसाधकत्वेन पराननुकूलत्वादाभासत्वम् । नन्वेते भेदाः किमिति नादाह्रियन्ते ऽत आह । तकीभास इति । शालिनामिति शेषे षष्ठी न लेोकेत्यादिना कृद्योगषष्ट्या एव निषेधादिति । अथाकृतपरिश्रमाणां च तन्त्राप्रवेशार्थं तदुक्तिप्रदेश दर्शयति । तत्रत्युपक्रम्य दर्शिता इत्यन्वयः । यथा नायं पर्वता निरग्निरित्यादिना सन्दर्भेणेति शेषः । इत्यादयो बौद्धस्य प्रलापा इत्यन्वयः । तदुक्ततकीणामनर्थकस्वात् प्रलापत्वोक्तिः । नेदं स्थूलमित्यादिबौद्धोक्तस्थूलद्रव्यनिरासे तकीणां मिथेो विरोधेत्यादिग्रन्था पूर्वोक्तानवैकल्यप्रयुक्तमाभासत्वं प्रतिज्ञाय पश्चाद्यथा नायं पर्वत इत्यादिना प्रपचितमित्यन्वयार्थी तत्र मिथेो विरोधेत्यनेन प्रतितर्कप्रतिधात उक्तः । तथाहि नेदं स्थूलं विरुद्धधर्मसंसर्गप्रसङ्गात् नास्थल तथा प्रतिभासप्रसङ्गादित्यनयोस्ता
हर