________________
१८३
सटीकतार्किकरक्षायाम्
'
भवति । तथा चायं कृतकः शब्द इति साधम्यैौवनयः । न तथा चायं कृतकः शब्द इति वैधस्यापनयः । तदुतम् । उदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वा साध्यस्योपसंहार उपनय इति ॥ ६६ ॥ ss ॥
हेतुपूर्वं पुनः पक्षवचेो निगमनं मतम् ॥ ६६ ॥
व्याप्रिपक्षधर्मतावद्धे तु पुरःसरं धर्मिणि साध्यस्योपसंहारो निगमनम् । पुनरित्युपसंहाररूपत्वमस्य प्रदर्शितम् । तस्मादनित्यः शब्द इति । तदुक्तम् । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमिति उपनयनिगमनयोः कृतकार्यत्वादानर्थक्यमिति चेत् न व्याप्तिमत्तया प्रतिसन्धीयमानस्य लिङ्गस्यानुमानत्वा
उदाहरणापेक्षः साधनस्योपसंहार उपनय इति लक्षणम् । तथेत्यादिस्तु भेदेोक्तिः ॥ ६८ ॥ ऽऽ ॥
निगमनलक्षणं व्याख्यातुं पठति । हेत्विति । पक्षवचः प्रतिज्ञावचनमित्यर्थः । प्राचीन हेतूक्तितो विशेषमाह । व्याप्तीति । पक्षवच इत्येतद्व्याचष्टे । धर्मिणीति । ननूपसंहाररूपत्वं संग्रहे न प्रतीयते इत्यत आह । पुनरितीति । हेत्वपदेशात् हेतूक्तिपूर्वकमित्यर्थः । प्रतिज्ञाद्यवयवत्रयपक्षावलम्बेन मीमांसकः प्रत्यवतिष्ठते । उपनयेति । कृतकार्यदिति हेतुप्रतिज्ञाभ्यामेव गतार्थत्वादित्यर्थः । परिहरति । नेति । कुतो नेत्याशङ्क्य उपनयस्य तावदर्थवत्तामाह । व्याप्तिमत्तयेति । प्रतिसन्धानं पक्षधर्मतानुसन्धा
हर च