________________
सटीकतार्किकरतायाम्
तेषु चावयवेषु प्रतिज्ञा नाम परप्रतिपादनार्थं
पक्षवचनमित्याह | तत्र प्रतिज्ञा पक्षोक्तिः प्रतिपादयितुं परम् ।
998
तदुक्तम् । साध्यनिर्देशः प्रतिज्ञेति । अत्र साध्यशब्दः पक्षवचनः । पक्षः साध्यान्वितो धर्मीत्युक्तमेव । धर्मिनिर्देशपूर्वकं साध्यनिर्देशः कार्यः शब्दोऽनित्य इति । यथाहुः । सिद्धधर्मसमुद्दिश्य साध्यधमा विधीयते ।
तथा ।
यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् । तद्वृत्तवकारश्च स्यादुपादेयलक्षणम् ॥ इति ।
ननु संग्रहे पक्षीक्तिः प्रतिज्ञेत्युक्तं सूत्रे तु साध्योक्तिरिति विरोधमाशङ्कयाह । अत्र साध्यशब्द इति । तर्हि धर्मिमात्र निर्देशः प्रतिज्ञेत्यर्थः स्यादित्याशङ्कयाह । पक्ष इति । ननु साध्यधर्म निर्देश एवं क्रियतां किं तद्विशिषुधमिनिर्देशगौरवेणेत्यत आह । धर्मिनिर्देशेति ।
कोsयं नियम इत्याशङ्का भित्तिकचित्रकर्मवन्निराश्रयधर्म विधानायेोगादित्याशयेनाह । सिद्धमिति । उद्देश्यविधेलक्षणपर्यालोचनयापि सिद्धसाध्यविधानं गम्यते इत्याह । तथा यत्तेति । यद्वृत्तं यच्छन्दः एवं तद्वृत्तमपि तच्छन्दः । प्राथम्यं विधेयात् प्रागुचार्यत्वम् । आदिशब्दात् प्राधान्यादिसंग्रहः । चकाराद्विधेयस्य गुणत्वादिसंग्रहः । उपादेयेति विधेयोपलक्षणम् । यथा ग्रहं समाषृत्यत्र यो ग्रहस्तं संमृज्यादिति वचनव्यक्तग्रहस्योद्देश्यत्वं संमार्गस्य विधेय
६३८