________________
प्रमेयप्रकरणे गुणनिरूपणम् ।
पृथक्त संयोग विभागपरत्वापरत्वगुरुत्वद्रवत्व संस्काराचतुर्दश गुणाः । तत्र रूपं शुक्लादानेकविधम् अग्निसंयोगविरोधि | रसस्तु षद्विधा मधुरादिः । द्विविधा गन्धः सुरभिरसुरभिश्च । स्पर्शेऽनुष्णाशीतः पाकजश्च । अपामपि स्नेहगन्धयोः प्रक्षेपप्रतिक्षेपमात्र विशेषितास्त एव गुणाः । प्रपसु रूपरसस्पर्शी : शुक्लमधुरशीतःः । रसस्नेहगुरुत्वव्यतिरिक्तास्त एव तेजसः । अत्र रूपं शुकं भास्वरं च उष्ण एव स्पर्शः । वायोस्तु रूपद्रवत्वव्यतिरिक्तास्त एव गुणाः । स्पर्शाऽनुष्णाशीतोऽपाकजश्च । स्पर्शव्यतिरिक्तास्त एव मनतः । त एव परत्वापरत्वसंस्कारव्यतिरिक्ताः (१) शब्दसहाया विहायसः । दिवालयोश्च शब्दपरिहारेण (२) त एव भवन्ति । बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्मीधर्मसंस्कारस
१४६
विशेषगुणानाह । तत्र रूपमित्यादि । तत्र रूपरसस्पर्शी : स्वाश्रयव्यवच्छेदसमर्थवान्तरसामान्यवत्वेन विशेषगुणाः गन्धस्तु तदेकनियतत्वात् स्वरूपत एव । एवमेवाबादिष्वपि रूपादीनां विशेषगुणत्वं स्नेहसांसिद्धिकद्रवत्वशब्दबुद्ध्यादीनां तु स्वरूपत एवेति बेोद्धव्यम् । तत्र क्षित्युदकात्मानश्चतुर्दशगुणाः एकादशगुणं तेजः नवगुणा वायुः अष्टगुणं मनः षगुणं नभः पञ्चगुणैौ दिक्काला विति विवेक्तव्यम् ।
(१) विधुराः - पा. B . (२) प्रहाणेन - पा० B.
દ