________________
प्रमेयप्रकरणे द्रव्यनिरूपणाम् ।
द्विकत्वं द्रवत्वस्याज्ञानसिद्धत्वं तेन द्रव्यान्तरसंश्लेषपाधिकद्रवत्वानां पार्थिवानां सर्पिःप्रभृतीनां तैजसानां सोसादीनां च व्यवच्छेदः । यथोक्तम् । सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यमिति । तथा त्रपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमङ्गिः सामान्यमिति । अपां विकारः करकादिः । उष्णस्पर्श इति शीतस्पर्शीनामनुष्णाशीतस्यशानां च सलिलपवनादीनां मिरास: (१) । न चैवं चान्द्रमसेन महसा भवत्यव्याप्तिः । उष्णभूमिभेदाश्चेति । तेषामपि भूर्विकारत्वात् गन्धवश्वमनुमेयम् । भूर्विकारत्वं च पाकजरूपवत्त्वात् अनुपलम्भा गन्धस्यानुद्भूतत्वात् सितभास्वरत्वं तूपधृम्भक तेजोवयवगतमिति भावः । आदिशब्दात् स्फटिकादिसंग्रहः । लक्षणे सांसिद्धिक विशेषणस्याथ कथनपूर्वकं व्यावर्त्यमाह । सांसिद्धिकत्वमिति । आजानसिद्धत्वमुत्पन्तिशिषृत्वमित्यर्थः । सांसिद्धिकं प्रकृतित आगतं तत् तथेोक्तम् । संसि - suती समेइत्यमरः । द्रव्यान्तरे संश्लेषोऽग्निसंयोगः । अत्र पूर्वेषां पार्थिवत्वं भौमानलेन्धनत्वात् उत्तरेषां तैजसत्वम् अत्यन्ताग्निसंयेोगेऽप्येकरूप्यादवगन्तव्यम् । गुरुत्वादिकं तूपषृम्भकपार्थिवावयवगतमित्याद्यूह्यम् (२) । अथैषां इयानामपि तथात्वे सूत्रसम्मतिमाह । ययेत्यादि । अप्लक्षणस्य करकादावव्याप्तिमायाह । अपां विकार इति । आप्यत्वात् तत्रापि सांसिद्धिकद्रवत्वमनुमेयम् । किं च प्रतिबद्धमित्यवसेयम् आदिशब्देन हिममथनफेनादिसंग्रहः । तेज लक्षणे विशेषणफलमाह । उष्णेति । अव्यारिमाशङ्क्य
(१) व्युदासः - पा. B. 1 (२) इत्यादा महनीयम् - वा. E . ।
१३५
આજે
D