________________
५३०
सटीकतार्किकरक्षायाम्
तत्राह ।
मोक्षे साक्षादनङ्गत्वादतपादैर्न लक्षितम् । तन्त्रान्तरानुसारेण षद्धं द्रव्यादि लक्ष्यते ॥ ३३ ॥
सत्यम् । द्रव्यादीन्यपि निःश्रेयसेोपयोगीनि विद्यन्ते तानि त्वाहत्य निःश्रेयसानङ्गत्वादक्षपादा न लक्षयाञ्चक्रुः । वयं तु तेषामपि परम्परया तदुपयोगोऽस्तीति काणादतन्त्रमनुसृत्य लक्षणमाचक्ष्मह इति । तानिदानों पदार्थानुद्दिशति ॥ ३३ ॥
द्रव्यं गुणस्तया कर्म जातिश्चैतत्रयाश्रया । विशेषः समवायश्च पदार्थाः षडिमे मताः ॥ ३४ ॥
द्रव्यगुणकर्मणामेव जातिमत्त्वं न सामान्यादीनां त्रयाणामित्युक्तमेतत्रयाश्रयेति । तेषामपि जातिमत्त्वे जात्यनवस्थितिः । विशेषस्य स्वरूपव्याघातः ।
sure | ननु निःश्रेयसेति । अन्यत् प्रतिज्ञायान्यदुद्दिश्यत इति शङ्कां निरस्यति । तानिति ॥ ३३ ॥
st सर्वाश्रयत्वेन प्राधान्यात् सामान्यवदुपक्रमानिःसामान्येषु महाश्रयत्वात् समवाप्युपक्रमात् तच्छेपत्वाच्च द्रव्याद्युद्देशक्रमः । उद्देशमध्ये प्रक्रमभेदेन जातेरेव विशेषणोपादानं किमर्थमत आह । द्रव्यगुणेति । ननु सामान्यादीनामपि सामान्यवत्वे किं बाधकमत आह । तेषामपीति । प्रादुष्यादित्यत्रोपसर्गप्रादुभ्याम
४४८