________________
प्रमेयप्रकरणे इन्द्रियनिरूपणम् ।
शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् । इन्द्रियं तत्र(१)मातात्त्वं जातिभेद इति स्थितिः
॥ २८ ॥
शरीरयोग इति इन्द्रियसन्निकर्षो व्युदस्यते स्वकारेण कादाचित्कशरीरयोगिन श्रालेाकादयः साक्षादिति च शरीरयोगीनि चेष्टादीनि लिङ्गानि प्रमितीत्यप्रमातवो दोषाः साधनमिति चेन्द्रियसंस्काराः तेषां साधनानुग्राहकत्वेन स्वयमसाधनत्वात् । उत्तरश्लोके साक्षात्त्वस्यापि लक्ष्यमाणत्वादसन्देहार्थमाह । इन्द्रियेति ।
शरीरयोगस्तत्संयोगः तेन सन्निकर्षव्युदासः । ननु प्रमितिपदापादानादद्ममाजनकस्येन्द्रियत्वं न स्यादिति चेन्न प्रमासाधनत्वात्यन्ताभावानधिकरणत्वस्य विवक्षितत्वादिति । यदा फले ऽतिव्याप्तिभिया हेत्वादिपदेोपादानं तदाञ्जनादिसंस्कारद्रव्येष्वतिव्याप्तिः स्यात् तदर्थं साधनग्रहणमित्याह । साधनमिति । कथं तेन तन्निवृत्तिरत आह । तेषामिति । कारणत्वे ऽपि करणत्वाभा वादित्यर्थः । ननूक्तरीत्या शरीरेन्द्रियलक्षणयेोरन्योन्यसापेक्षत्वादन्योन्याश्रय इति चेन्नैष दोषः यदेन्द्रियाश्रयः शरीरमितीन्द्रियज्ञानसापेक्षत्वं शरीरस्य लक्षणमुच्यते तदेन्द्रियस्य रूपाद्युपलब्धिलिङ्गत्वादिकं शरीरज्ञाननिरपेक्षं लक्षणान्तरमाश्रयणीयम् एवमिन्द्रियस्यापि पूर्वोक्तशरीरज्ञानसापेक्षलक्षणाभिधाने शरीरस्य चेष्टाश्रयत्वादिन्द्रियज्ञाननिरपेक्षं लक्षणमाश्रयणीयमिति व्यवस्थानात् । इलो
(१) तच्च साक्षात्वं- प्रा. C पु. |
१२३
a-No. 7, Vol. XXII.-- July, 1900.
४४०