________________
१०७
मायाक करतो ऽभावान्तभावनिरूपणम् । तस्मात् प्रत्यक्ष योग्यार्थ । नुपलब्धौ तदभावोऽपि प्रत्यक्षः नन्वेवमनुपलब्धिः कारणं स्यादिति चेत् हन्तेवमभावानुपलब्धिरपि भावग्रहणकारणमापनमायुष्मताम् । भाबोपलम्मे ऽप्यभावानुपलम्भस्य नित्यं सन्निधानादिति । तदेतत्सर्वं न्याय कुसुमाञ्जली प्रपञ्चितमावायैः । यथा ।
परमाण्वाभावेषु वाघः स्यादित्यत उक्तं प्रत्यक्षयेोग्येति । नन्वेवमनुपलब्धेरप्यावश्यकत्वादुभयवादिसिहा सैव प्रHreafteratन शङ्कते । नन्वेवमिति । आवश्यकरवे कारणत्वं स्यात् न तु प्रमाणत्वम् अन्यथाभावोपलम्भे ऽप्यभावानुपलब्धिरेव प्रमाणं स्यात् नेन्द्रियमिति सोपहासं परिहरति । हन्नैवमिति । अत्र कारणशब्दः प्रमाणवचनः । सैव कुत इत्यत आह । भावोपलम्भे ऽपीति । अपिशब्दादभावेोपलम्भे भावानुपलम्भवदिति दृष्टान्तः सूचितः । नन्वघट भूतलमिति विशिष्टबुद्धाविन्द्रियग्राह्यत्वे ऽप्यभावस्य केवलस्यातत्त्वान्नास्ति अस्तित्वे वा केवलसौरभव्य चाक्षुषत्वप्रसङ्गः तस्मात् पूर्व केवलग्रहणायानुपलब्धिराश्रयणीया अन्यथा नागृहीतविशेषणेतिन्यायाद् विशिपृधीरेव न स्यात् किं च यदिह भूतले घटो नास्तीत्यभाव इन्द्रियेण विकल्प्यते तदा प्रथमं निर्विकल्पकेनापि ग्राहा: अन्यथा विकल्पानुदयात् न च प्रतियोगिनिरूप्यस्यास्य तधुज्यते प्रमाणान्तरे तु नेयमनुपपत्तिरित्याशङ्क्याह । तदेतत्सर्वमिति ॥
ब - No. 6, Vol. XXII. - June, 1900.
३६५