________________
प्रमाणप्रकरणे उपमाननिरूपणम् ॥
साधर्म्यमानेोदाहरणानि बहूनि दर्शयित्वा अन्यान्यप्याहस्म भगवान् भाष्यकारः । एवमन्योऽप्युपमानस्य विषयो बुभुत्सितव्य इति ॥ २२ ॥ ऽऽ ॥ वादिविप्रतिपन्तेरुपमानस्य प्रमेयं फलं च
दर्शयति ।
प्रमेयं तस्य सम्बन्धः सञ्ज्ञायाः सञ्ज्ञिना सह ॥ २३॥ तत्प्रतीतिः फलं चास्य नासैौ मानान्तराद्भवेत् । सञ्ज्ञासज्ञ्जिसम्बन्ध उपमानस्य प्रमेयम् फलं च तत्सम्बन्धप्रतीतिः (१) । यथाहुः |
सम्बन्धस्य परिच्छेदः सञ्ज्ञायाः सजिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ इति ।
प्रमाणमाह । अत एवेति । तस्य प्रामाण्यसूचनार्थमुक्त भगवानिति । भाष्येोक्तः साधयौदाहरणान्तरत्वशङ्कां निरस्यति । बहूनोति । तत्र निराकाङ्क्षत्वाद्वैधर्म्यादिविषये वेत्यर्थः ॥ २२ ॥ ऽऽ ॥
नन्वस्योत्तरश्लोके प्रमेयफलकथन प्रक्रमविरुद्धं प्रत्यक्षादेस्तदनुक्तेरत आह । वादिविप्रतिपत्तेरिति । पार्थक्ये लक्षणे चेति शेषः ।
इलाकाक्षराणि योजयति । सज्ञेति ॥ अत्रोदयनसम्मतिमाह । यथाहुरिति । नासौ माना
न्तरादित्युक्तम् ।
अतिदेशवाक्यादनुमानाद्वा तत्प्रतीतेरित्याशङ्क्य न
( १ ) प्रतिपत्तिः - पा· B पु.
She