________________
सटीकता किकरतायाम्
साध्यधर्मवत्त्वेन सपक्षत्वे पक्षोऽपि सपक्षः स्यादित्युक्तं साध्यजातीयधर्मवानिति । एवं साध्यधमनिवृत्तिमानित्यत्रापि साध्यधर्मविशेषस्य तज्जातीयधर्मस्य च निवृत्तिमान् विपक्ष इति विवक्षितम् । अन्यथा साध्यधर्मविशेषनिवृत्तिमात्रेण विपक्षत्वे सपक्षस्यापि तथाभावाद् विपक्षत्वप्रसङ्ग इति ॥ १९ ॥ ऽऽ ॥ प्रकारान्तरेणानुमानद्वैविध्यमाह ।
ब्य
0
अत्र सपक्षलक्षणे जातीयरः प्रयोजनमाह । साध्यधर्मवत्त्वेति । सपक्षलक्षणस्य पक्षे ऽतिव्याप्तिनिरासार्थीsयं प्रत्यय () इत्यर्थः । विपक्षलक्षणे तु जातीयरः प्रत्ययाarshi faar इत्याह । एवमिति । अन्यथा सपक्षे ऽतिव्याप्तिः स्यादित्याह । अन्यथेति । साध्यधर्मविशेषवान् ) धर्मी पक्षः । तज्जातीयधर्मवान् सपक्षः । तदुभयविरही विपक्ष इति लक्षणार्थः ॥ १९ ॥ ss ॥
दृष्टमित्याद्यनन्तरइलाके ऽस्येति सर्वनाम्ना सन्निहितपक्षादित्रयपरामशीत् तस्य च दृष्टादिद्वैविध्यायोगादसाङ्गत्यमित्याशङ्क्य प्रकरणात् सन्निधेर्दुर्बलत्वादने के टिपशुसामात्मक राजसूयगतानामभिषेचनीयाख्यसामयागसन्निधिबाधेन विदेवनादिधर्माणां सर्वात्मकप्रकृतराजसूयसम्बन्धवत् सन्निहितपक्षादिसम्बन्धबाधेन तदाश्रितप्रकृतानुमानविषयत्वेनावतारयति । अनुमानद्वैविध्यमिति । तर्हि पूर्वीतत्रैविध्यविरोध इत्यत आह । प्रकारान्तरेणेति ।
(१) प्रयास - पा० E पु. 0 (२) विशिष्टवानिति कचित् ।