________________
भूमिका ।
ज्ञानपूर्ण विरचितलघुदीपिकाख्यत हिप्पणपुस्तकं (१) च ल
व्धम् ।
तलध्या जानोत्साहेन मया व्याख्यानान्तरान्वेषणे कृते एकस्य वृद्धस्यामत्सम्बन्धिनेो गृहे ब्राह्मणसम्पादनीयत्वेन (२) स्थापितेषु वस्तुषु संख्यापूरकत्वेन निक्षिप्तेषु दुर्दशापन्नेषूत्तमेषु हस्तलिखित पुस्तकेषु हठादाकर्षितेषु भूयोभूयेा निवार्यमाणेन मया कोलाचलमल्लिनाथसूरिकृतस्य निconverter fire सारसङ्ग्रहानुगततार्किकर चाव्याख्यानस्य पुस्तकं प्रथमपरिच्छेदमात्रं ( ) लब्धम् । तदनन्तरमस्यैव ग्रन्थस्य पुस्तकान्तरमपि वाराणस्यामेवैकस्य संन्यासिनो निकटे वर्तमानं कृमिभक्षितसर्वदेशं विशीर्णमन्ते खण्डितं च (४) लब्धम् । अनन्तरं वाराणसीस्थराजकीयाङ्गलपाठ
(१) हृदमपि सम्प किन्त्वनेकस्यलेण्व लग्न पाठमशुद्धं च । (२) अध्ययनाध्यापनादिब्रह्मणधर्मः स च पुस्तकेन विना न भवतीति पुस्तकं शालग्रामशिलासमीपे स्याप्यं वा गङ्गायां प्रक्षेपणीयमिति तस्य वृद्धस्य सिद्धान्तः ।
(३) दहं पुस्तकं कागजात्याधारे देवनागराक्षरैर्लिखितं जीर्ण त्रुटितपार्श्वभागं स्पशीनर्हमशुद्धम् । श्रात्र यद्यपि लेखक्रेन लिपिकाला न लिखितस्तथापि जीर्णत्वादयाकारेणानुमीयते यत् वर्षसार्द्धशतद्वयात पूर्व लिखितमिति ।
(४) अनारम्भपत्रस्य पूर्वपृष्ठे एवं लिखितमस्ति 'श्रीसर्वाधियानिधानकवीन्द्राचार्य सरस्वतीनां धरदराजीयटीका निष्कटिका पुस्तकम् ॥" एवं हस्ताक्षरमुद्रा चिह्नितान्यनेकानि पुस्तकानि वाराणस्यां कचि द्वेशान्तरेष्वपि महापुस्तकालयेषु वर्तमानानि दृश्यन्ते । तस्मादनुमीयते यत् वाराणस्यां कोऽपि महान् पुस्तकालय उक्तमहात्मन ग्रासीदिति ॥
66
3€