________________
प्रमाण प्रकरणे ऽनुमाननिरूपणम् ।
तत्वेन रक्तताप्रतीता जपाकुसुमवत् साधनाभिमतगतत्वेन स्वधर्मभूताया व्याप्तेः प्रतिभासनिमित्तत्वेनास्योपाधित्वव्यपदेश इति ॥ १३ ॥
उपाधिद्वैविध्यमाह । भवन्ति ते च द्विविधा निश्चिताः शङ्किता इति' 7(9)
निर्णीतेाभयविशेषणवान् निश्चित उपाधिः । यथोदाहृतमेव निषिद्धत्वम् । उक्तयोर्विशेषणयेोरन्यतरसदसद्भावशङ्कायां तु शङ्कित उपाधिः स्यात् । यथा मैत्रीगर्भत्वेन सम्प्रमगर्भस्य श्यामत्वे साध्ये शाकादयाहारपरिणतिः । पक्षभूते हि सप्रमगर्भ श्यामत्वोपाधेः
उप समीपस्थे स्वधर्मीधानादुपाधिरुच्यत इत्यर्थः ॥ १३ ॥ ननु सम्प्रति प्रकृतानुमान विभागप्रस्तावादुत्तर इलाके बहुवचननिर्देशः कथमत आह । उपाधीति ।
शङ्किताः सन्दिग्धा इत्यर्थः ।
तत्र निश्चितोपाधेर्लक्षणमुदाहरणं चाह । निर्णीतेति । शङ्कितोपाधेरप्याह । उक्तयेोरिति । साधनाव्यापकत्वसाध्यव्यापकत्वयोरित्यर्थः । गर्भस्य श्यामत्व इत्यनेन प्राणिश्यामत्व एवायमुपाधिर्न सर्वत्रेति सूचितम् । तेनेन्द्रनीलादिश्यामत्वे साध्यव्याप्तिभङ्ग इति चाद्यं गर्भश्रावेण गलितम् । अस्य शङ्कितोपाधित्वं कथमत आह । पक्षभूते हीति । ननु साधनाव्यापकत्वं सन्दिग्धं चेत् तस्या
(१) अधि-या A .
१८७