________________
प्रमाण प्रकरणे ऽनुमाननिरूपणम् ।
वत्वं साध्यमनित्यत्वं व्याप्नोति प्रनित्येष्वेव क्रियादिस्वभावात् । अथ साध्यव्यापक इत्येवाभिधीयेत ततश्चानित्यत्वसाधने सावयवत्वे कृतकत्वमुपाधिः स्यात् । तस्य साध्यानित्यत्वव्याप्तेः । साधनाव्यापक इत्युक्ते पुनस्तस्य सावयवत्वव्यापकत्वादनुपाधित्वं निरुपाधिकसाध्यसम्बन्धं चाभयम् । यथाहुः । कृतकत्वसावयवत्वादिप्रयुक्ता च विनाशितेति । तस्मात् प्रयोजनवदेव विशेषणद्वयोपादानम् । यथाहुः । एकसाध्याविनाभावे मिथः सम्बन्धशून्ययोः । साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥ इति ।
६०
नमित्यन्तेन सन्दर्भेण । अनित्यत्वसाधने कृतकत्व इति । । अनित्यः शब्दः कृतकत्वाद् घटवदित्यत्र साधनाव्यापकत्वाद् घटे सावयवत्वमुपाधिः स्यादित्यर्थः । अनित्यत्वसाधने सावयवत्व इति । क्षित्यादिकमनित्यं सावयवत्वाद् घटवदित्यत्र साध्यव्यापकत्वात् कृतकत्वमुपाधिः स्यादित्यर्थः । ननु कृतकत्व सावयवत्वयोरेकस्य सोपाधिकत्वमस्तु तथा च साधनाव्यापकत्व साध्यव्यापकत्वयोरन्यतरेणैव लक्षणसिद्धी लाघवादित्याशङ्कयाह । निरुपाधिकेति । अनित्यत्वसाधने द्वयोरपि दृष्टशक्तिकत्वान्नान्यतरपरित्यागो न्याय्य इति भावः । द्वयोरप्यनित्यतासाधकत्वे वृद्धसम्मतिमाह । यथाहुरिति । प्रकृतमुपसंहरति । तस्मादिति । समपदं तु पक्षेतरत्वनिरासार्थमिति शेषः ।
उपाधिलक्षणमुदयनवाचा संवादयति । एकसाध्ये
ठ - No. 3, Vol. XXII. - March, 1900.
બી