________________
प्रमाण प्रकरणे प्रत्यक्षनिरूपणम् ।
अपरोक्षप्रमाव्याप्तं प्रत्यक्षम् । अपरोक्षत्वं () साक्षात्त्वम् तञ्च लैङ्गिकादिज्ञानव्यावृत्त ऐन्द्रियकज्ञानानुगतः कश्चिद् ज्ञानत्वावान्तरजातिभेद इत्यग्रे दर्शयिष्यति । अपरोक्षप्रमाव्याप्तं
५०
अपरोक्षेत्यनेन लैङ्गिकादिव्युदासः । गतमन्यत् । अत्राविघ्नमन्ब्राह्मण इतिवन्नञस्तद्भावतद्न्यवृतित्वे प्रमासामानाधिकरण्यायोगादधर्मवत् तद्विरुद्धवृत्तित्वमित्याशयेनाह । अपरोक्षत्वमिति । तच्च न भूतत्वादिवदौपाधिकं सामान्यं किं तु मुख्यमेवेत्याह । तञ्चेति । अत्राद्यविशेषणेन ज्ञानत्वानुभवत्वादेर्व्युदासः । द्वितीयेन स्मृतित्वस्य । तत्रापि तद्वृत्तिरित्युक्तं चाक्षुषत्वादिधर्मेध्वतिव्याप्तिः स्यादत उक्तम् अनुगत इति । तद्व्यावृत्तत्वानधिकरणमित्यर्थः । जातिग्रहणाद व्यञ्जकधर्मस्यैन्द्रियकत्वस्य निवृत्तिः । ज्ञानत्वावान्तरेति स्फुटार्थम् । सत्तागुणत्वयोश्च प्रथमविशेषणेनैव पलायनात् । एतच्च लौकिकप्रत्यक्षाभिप्रायमीश्वरज्ञानाव्याप्तेः तेन लैङ्गिकादिव्यावृत्तमिन्द्रियजन्याजन्यज्ञानव्यावृत्तत्वानधिकरणसामान्यं साक्षात्वमिति योज्यम् । अजन्यज्ञानमीश्वरस्येति न तत्राव्याप्तिः । अग्र इति । प्रमेयेवक्षलक्षणप्रसङ्गादिन्द्रियं तच साक्षात्त्वं जातिभेद इति स्थितिरिति वक्ष्यतीत्यर्थः । प्रसिद्धानुरोधेन प्रमाकरण
( १ ) अपरोक्ष्यं - पा. B पु.
(२) निवेदयिष्यति - पा· B पु० ।
(३) शरीरयोगे सत्येव साक्षात्प्रमितिसाधनम् । इन्द्रियं तच्च साक्षात्त्वं जाति भेद इति स्थितिः ॥ इति E पुस्तके टिप्पण्याम् ।
१०३