SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति- लघुन्याससंवलिते वायनणायनिञोः ॥ ६. १. १३८ ॥ आनण आयनिजच यून्यपत्ये विहितस्य प्राजितीये स्वरादौ प्रत्यये विषयभूते लुब् वा भवति, गर्गस्यापत्यं गार्ग्यः तस्यापत्यं युवा गार्ग्यायणः, ' यञिञ : ' ( ६- १ - ५४ ) इत्यायनण्, तस्य छात्रा गार्गीयाः गार्ग्यायणीया वा, 'दोरीयः' (६-३ - ३१ ) इतीयः । चिङ्कस्यापत्यं चैङ्किः तस्यापत्यं युवा चैङ्कायनः, तस्य छात्राः चेङ्कीयाः चैङ्कायनीया वा, आयनिञः खल्वपि । होतुरपत्यं होत्रः तस्यापत्यं युवा हौत्रायणिः, 'द्विस्वरादण:' ( ६-१-१०९ ) इत्यायनि तस्य छात्राः हौत्रीयाः हौत्रायणीया वा । 'दोरीयः' ( ६-३-३१) इतयः । आयनोति उपादानात् ञितः पूर्वेण नित्यमेव लुप् अत्रेरपत्यमात्रेयः । तस्यापत्यं भारद्वाजो युवा आत्रेयायणः, 'आत्रेयाद्भारद्वाजे ' ( ६-१-५२ ) इत्यायनञ् तस्य छात्रा : आत्रेयीयाः । १३८ | ५८ ] [ पाद. १ सू० १३९ J न्या० स० वाय चैक्कीया इति 'वृद्धेनः ' ६-३ - २८ इत्यम् न भवति 'न द्विस्वरात् ' ६- ३ - २९ इति प्रतिषेधात् । दीत्रो वा ॥ ६. १. १३९॥ 6 4 प्राजितीये स्वर इति निवृत्तम्, द्विसंज्ञो य इन् तदन्तात्परस्य युवप्रत्ययस्य लुब् वा भवति । उदुम्बरस्यापत्यमोदुम्बरिः, 'साल्वांश '( ६- १ - ११७ ) इत्यादिनेञ् । तस्यापत्यं युवा औदुम्बरि: औदुम्बरायणो वा, ' यञिञः ' ( ६-१-५४ ) इत्यायनण् । द्रिग्रहणं किम् ? दाक्षेरपत्यं दाक्षायणः । इञ इति किम् ? अङ्गस्यापत्य माङ्गः । 'पुरुमगध'(६-१-११६) इत्यादिना अण्, तस्यापत्यमिति 'द्विस्वरादण:' ( ६-१-१०९ ) इत्यायनिञ्, तस्य ' अब्राह्मणात्' (६-१-१४१ ) इति नित्यं लुप् । आङ्गः पिता, आङ्गः पुत्रः । 'अब्राह्मणात्' इति नित्यं लुपि प्राप्तायां विकल्पार्थं वचनम् ।१३९। न्या० स० द्रीत्रो - प्राजितीये स्वर इति निवृत्तमिति - अस्य सूत्रस्य करणात्, अन्यथेमन्तात् आयनणैव भाव्यमिति पूर्वेणैव सिद्धे इदं न कुर्यात् । नन्वायनणैव भाव्यमिति न वाध्यं यत उदुम्बरस्यापत्यं स्त्री इम् । नुर्जाते तदा ङ्ङ्घन्तात 'स्थाप्यूङ : ' ६-१-७० इति एयणू प्राप्नोति इति प्राग्रजितीये प्रत्यये एतदूविना लोपो न प्राप्नोतीत्येतद कस्मान्न भवति ? सत्यं, यद्येतदर्थं स्यात्सदा यूनि लुपि यस्या इदं कुर्यात् ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy