SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ४२ ] बृहद्वृत्ति- लघुन्याससंवलिते अवृद्धाद्दोर्नवा ॥ ६. १. ११० ॥ अवृद्धवाचिनो दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । आम्रगुप्तायनिः, आम्रगुप्तिः, शालगुप्तायनिः, शालगुप्तिः, वायुरथायनिः, वायुरथिः, पञ्चालानां राजा पाञ्चालस्तस्यापत्यं पाञ्चालायनिः पाञ्चालि:, नापितस्यापत्यं नापितायनिः, नापित्यः, पक्षे नापितशब्दस्येम् नास्ति तद्बाधनार्थं हि कुर्यादिषु तस्य पाठः । अवृद्धादिति किम् ? दाक्षेः दाक्षायणः, प्लाक्षेः प्लाक्षायणः । दोरिति किम् ? अकम्पनस्यापत्यमाकम्पनिः । ११० । [ पाद. १ सू० ११०-११२ ] पुत्रान्तात् ।। ६. १. १११ ।। पुत्रशब्दान्तात् दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति । गार्गीपुत्रायाणिः, गार्गीपुत्रिः, वासवदत्तापुत्रायणिः, वासवदत्तापुत्रिः । पूर्वेणायनिञि सिद्धे वचनमिदमुत्तरसूत्रप्राप्त कागमाभावार्थम् । उत्तरेण च कागमोऽपि, एवं च गार्गीपुत्रायणिरिति तार्तीयीकमपि रूपं भवति । १११ । चर्मिवर्मिंगा रेटका र्कट का कलङ्कावाकिनाच्च कश्चान्तो ऽन्त्यस्वरात् ॥ ६ १. ११२ ॥ चमिन् वर्मन् गारेट कार्केटथ काक लङ्गा वाकिन इत्येतेभ्यः पुत्रान्ताच्च दुसंज्ञकादपत्ये आयनिञ् प्रत्ययो वा भवति तत्संनियोगे चैषामन्त्यस्वरात्परः ककारोऽन्तो भवति । चार्मिकार्याणिः, चार्मिणः, वार्मिकार्याणिः, वार्मिणः । ' संयोगादिनः' (७-४-५३ ) इति प्रतिषेधादणि अन्त्यस्वदादिलोपो न भवति । गारेट कायनिः, गारेटिः, कर्कटस्यापत्यं कार्कटयः, तस्यापत्यं कार्कटयकायनिः कार्केटयायनः । यदा स्वव्युत्पन्नः कार्कटचशब्दस्तदा पक्षे इजेव । कार्कट्यः, काककायनिः, काकि:, लाङ्का, लाङ्ककायनि, लाङ्केय:, लङ्कशब्द केचिदकारान्तमिच्छन्ति, तन्मते लाङ्ककायनिः । लाङ्किः, वाकिन कार्यनि:, वाकनि:, पुत्रान्तादोः, गार्गीपुत्रकायणिः, गार्गीपुत्रिः । ककारस्यान्त्यस्वरात्परतो विधानं चमिवर्मिणोः नकारस्य लोपार्थम् । यद्येवं परादिरेव क्रियेत । नैवम्, तथा सति प्रत्ययस्य व्यञ्जनादित्वात्पुंवद्भावो न सिध्येत् । चर्मिण्या अपत्यं चार्मिकायणिः, वर्मिण्या अपत्यं वामिकायणिः । ११२ । " न्या० स० चर्मिवर्मिंगारे - अन्तग्रहणाभावे कस्य प्रत्ययत्वं स्यात्, ततश्च लाककायनिरित्यत्र C , अनन्तः पञ्चम्याः प्रत्ययः 'इयादीदूत : ' २-४ -१०४ इति ह्रस्वत्वं स्यात् । अत एव च १-१-३८ इत्यत्रान्तग्रहणं सफलम् ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy