SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ लिङ्गानुशासनम् कम्बुः सक्तुर्दार्वगुरुर्वास्तु पलाण्डु हिङ्गुः शिग्रुर्दोस्तितउः सीध्वथ भूम । वेम प्रेम ब्रह्म गरुल्लीम विहायः कर्माष्ठीवत् पक्ष्मधनुर्नाम महिम्नी ॥ ३६ ॥ ॥ इति पुंनपुंसकलिङ्गाः ॥ [ 43 कम्बु : शंख:, वलये शम्बूके, गजे कट्टरे च पुंसि सक्तुः यवादिविकृतिः, केचिदेनं बहुवचनान्तं पठन्ति, दारु काष्ठं दार्वन्तत्वादेव महादार्वादयोऽपि पुं क्लीवा :, सर्वेऽप्येते एकार्थाः, अगुरु गन्धद्रव्यविशेषः, वास्तु: गृहभूमि: पलाण्डुः कन्दविशेष:, हिङगुः रामठ, शिग्ग्रुः शोभाञ्जनम् । अथोदन्तप्रक्रम एव छन्दोऽनुसंधानात् सन्तः, दो बाहुः, तितउः शूर्पं, सीधुः मैरेयम् । अथ व्यञ्जनान्ताः १३ भूमा बहुत्वं वेमा तन्तुवायप्रेम स्नेहः नर्म च ब्रह्म तप वेदः ज्ञानं प्रात्मा प्रजापतिः, गरुत् स्वर्णं पिच्छं च लोभ च तनूरुहं, विहायाः शकुनिर्नभश्च कर्म क्रिया व्याप्यं च भ्रष्ठीवान् जानुः, पक्ष्म अक्षिरोम तूलं च धनुः चापं नाम संज्ञा, महिमा महत्त्वम् ।। ३६ ।। " शलाका, ॥ इति पुनपुसकलिङ्गं समाप्तम् ।। स्त्रीक्लीबयोर्नखं शुक्तौ विश्वं मधुकमोषधे । माने लक्षं मधौ कल्यं, क्रोडोऽङ्के तिन्दुकं फले ॥ १ ॥ शुक्तौ गन्धद्रव्यविशेषे नखशब्दः स्त्रीक्लीबलिङ्गः, नखो, नखं विश्वमधुकनाम्नी प्रोषधवाचिनी स्त्रीक्लोबे । विश्वा विश्वं शुण्ठी, मधुका मधुकं मधुयष्टिः, माने संख्यायां लक्षं स्त्रीक्लीबं, लक्षा लक्षं सहस्रशतं, मधौ मद्ये वाच्ये कल्यशब्दः स्त्रीक्लीबः, कल्या कल्यं, प्रङ्क उरसि वाच्ये कोडशब्दः स्त्रीक्लीब:, क्रोडा, कोडंम् फलविशेषे तिन्दुकं स्त्रीक्लीबं, तिन्दुकी, तिन्दुकम् ॥ १ ॥ तरलं यवाग्वां पुष्पे पाटलं पटलं चये । वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ।। २ ।। यवाग्वां वाच्यायां तरलं, तरला, तरलं । हारे तन्मध्यमरणो चाभरणनामत्वात् 'पु ंस्त्वम् । पुष्पविशेषे वाच्ये पाटलं, पाटली पाटलं, चये समूहे वाच्ये पटलं, पटली पटलम् पिटकतिलकपरिच्छेदेषु लान्तत्वान्नपुंसकत्वं वृत्तविशेषे वसन्ततिलकं, वसन्ततिलका, वसन्ततिलकं, भिक्षुभाजने वाच्ये कपालं स्त्रीक्लोवम्, कपाली, कपालम् ।। २ ।।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy