________________
लिङ्गानुशासनम्
[ 41
कवलप्रवालबलशम्बलोत्पलोपल-शीलशैलशकलाङ गगुलाञ्चलाः । कमलं मलं मुशलशालकुण्डलाः, कललं नलं निगलनीलमङगलाः ॥ २६ ॥
कवलः भक्ष्यपिण्डः, प्रवालं नवकिशलयं विद्रुमश्च, बलः प्राणः अर्थप्राधान्यात् सहोऽपि, सैन्यस्थौल्यरूपेषु तु क्लीबः, शंबलं पाथेयं, उत्पलं सरोज अर्थप्राधान्यात् कुवलयमपि. उपलः पाषाणः, शीलं सद्वृत्तं स्वभावश्च, शैलं गडः, शकलं खण्डं, अङ्गलः अङ गुलीयमानं, अञ्चलं वस्त्रैकदेशः, कमलः पद्म जले तु क्लीबः, अर्थप्राधान्यान्नालीकमपि, मलं किट्ट पापं च, किट्ट चार्थप्राधान्यात् किट्टः किट्ट, मुसलः क्षोदनोपकरणं अर्थप्राधान्यात् अयोऽग्रः । शालं वृक्षविशेषः, कुण्डलं कर्णाभरणं, कललं शुक्रशोणितयोरीषद्घनः परिणामः, नलं अन्तःशुषिरस्तृण विशेषः, नल् गन्धे इत्यस्येद रूपमिति कृतलत्वान्नडादस्य भेदः । निगल्यते बध्यतेऽनेनेति निगल: पादबन्धनम् । अयमपि धातुभेदे कृतलत्वान्न सिध्यति । नीलं वर्णविशेषः। मङ्गलः प्रशस्तम् ।। २६ ।।
काकोलहलाहलौ हलं कोलाहलकङ कालवल्कलाः ।
सोर्चलधूमले फलं हालाहलजम्बालखण्डलाः ॥ ३० ॥ .
काकोलो विषभेदः, हलाहलः स एव, हलः सीरः कोलाहल: कलकलः कंकालं शरोरास्थि । वल्कलं वृक्षादीनां त्वक्, सौवर्चलं रुचकं, धूमल: तूर्यः, फलः प्रयोजनं पुष्पादिभवं च, हालाहलो विषभेदः एकदेशविकृतस्यानन्यत्वेन हालाहलमपि, जम्बाल: कर्दमः, खण्डलः खण्डम् ।। ३० ।।
लाङ गूलगरलाविन्द्रनीलगाण्डीवगाण्डिवाः ।
उल्वः पारशवः प्रार्वापूर्वत्रिदिवताण्डवाः ॥ ३१ ॥ लाङ गूल: पुच्छं, गरलं विषं, इन्द्रनील: रत्नभेदः, गाण्डीवं धनुः पार्थधनुश्च, गाण्डिवं तदेव. उल्वः कललम् । पारशवः शस्त्रं, पार्श्वः कक्षाधः शरीरदेशः, अपूर्व धर्माधमौं, त्रिदिवं स्वर्गः, ताण्डवं उद्धतं नृत्यम् ।। ३१ ।।
निष्ठेवप्रग्रीवशरावरावौ भावक्लीवशवानि । देवः पूर्वः पल्लवनल्वौ पाशं कुलिशं कर्कशकोशौ ॥ ३२ ॥
निष्ठेवः निष्ठेवनं-पत्र यज्ञोपकरणवाचिनं पात्रीवशब्दं केचित् पठन्ति स त्वाश्रयलिङ्गः, प्रग्रीवो वातायनं शरावो वर्धमानं, रावः ध्वनिविशेषः, भावः स्वभावादिः, क्लीबः तृतीयाप्रकृतिः अर्थप्राधान्यात नपसकमपि । शवो मृतशरीरं, देवो विधिः, पर्व प्रथमता, गुणवृत्तिस्त्वाश्रयलिङ्गः, पल्लवः किशलयं, पल्लवान्तत्वाद् सपल्लवो वासः, नल्वो हस्तचतुःशती। अथ शान्ताः ८-पाशो बन्धनं, कुलिशा वज्र कर्कशोऽमृदुत्वं