________________
12 ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने
समाहार इति किम् ? पञ्चाम्रप्रियः, अन्नन्तमाबन्तं च यदुत्तरपदं तदन्तो द्विगुर्वा स्त्री, पञ्चराजी, पञ्चराजम्, पञ्चमाली, पञ्चमालम्, त्रिसंध्यं तु क्लीबम् । अन्नन्तं चाबन्तं चोत्तरपदं न द्विगुरिति द्विरन्तग्रहणम्, उक्तस्त्रीत्वादन्यो द्विगुः समाहारे वर्तमानो नपुंसकम्, तेन पात्राद्युत्तरपदस्यानदन्तोत्तरपदस्य विकल्पितस्त्रीत्वस्य च पक्षे क्लीबत्वम् ।। ५ ।।
लिन्मिन्यनिण्यरिणस्त्र्युक्ताः क्वचित्तिगल्पह्रस्वे कप् ।
विशत्याद्या शताव द्वे, सा चैक्ये द्वन्द्वमेययोः ॥ ६ ॥ लित्प्रत्ययान्तं मि-नि-अनि-अरिण-प्रत्ययान्तं स्त्रियामुक्ताः स्त्र्युक्ताः क्तिः, क्यप्, शः, य, अः, अङ, अनः, क्विप्, ञः, अनिः, इञ्, रणकश्च इत्येतदन्तं च नाम स्त्रीलिङ्ग स्यात् । लित्वां समूहो गोत्रा, एवं रथकट्यातृण्या-जनतादयोऽपि, शुक्लस्य भावः शुक्लता, देव एव देवता इत्यादि।
मिः,--नेमिः कूपस्यान्ते त्र्यस्र काष्ठं चक्रधारा च, वल्मि: इन्द्रः, दल्मिः शस्त्रम् । निः-वेनिः केशरचना, अनिः वर्तनि: मार्गः, अटनिर्धनुष्प्रान्तः। रिण:वाणिः मूल्यं, वेरिण: केशरचना प्रवाहश्च, अणि:-सरणिः पन्थाः, तरणिः संक्रमो यवागूश्च, समुद्रादौ तु स्त्रोपसत्वम् । क्ति:-भूत्यादयः । क्यप-पास्या आसनस् । अट्या-व्रज्या, ईर्या च गमने। श:-क्रिया। य:-जागर्या । अ:-शंसा, इच्छा, शुश्रूषा श्रवणेच्छा । अङ-भिदा, छिदा, पूजा। अन:-वन्दना स्तुतिः, चेतना सवित्तिः । याचेरपि बाहुलकादने याचना, एषां भावे क्लीबत्वम् । क्विप्-संपत्, समित् एधो रणश्च, रुक् त्विट् धुच्च कान्तिः । त्र:-व्यात्युक्षी व्यतिहारेण सेचनम् । अनिः-अजननिस्ते वृषल भूयात् । इञ्, कां, त्वं कारिमकार्षी: सर्वां कारिमकार्षम् । रणक: भवतः शायिका, शयित पर्याय इत्यर्थः। क्वचिल्लक्ष्यानुसारेण तिगन्तं नाम स्त्रीलिङ्गम् । तनुतात्तन्तिरित्यादि । अल्पे ह्रस्वे चार्थे यः कप् तदन्तं नाम स्त्रीलिङ्गम् अल्पः क्रयः ऋयिका, ह्रस्वः पुट: पुटिका। क्वचिदिति किम् ? पुटकः, विशत्याद्या संख्या संख्येये संख्याने वर्तमाना च स्त्रीलिङ्गम् । इयं विशति: घटा घटानां वा, एवं त्रिंशदादयोऽपि ।
षष्टि स्त्रिलिङ्गः, शताद्यानां पुनपुसकत्वम्, नन्तसंख्या त्वलिङ्गा, द्वन्द्व विशत्याद्या संख्या शतादर्वाक् स्त्रीलिङ्ग एकविंशतिर्यावन्नवनवतिः। द्वन्द्वकत्वे इति क्लीबत्वबाधनार्थं वचनम्, सा विशत्याद्या संख्या द्वंद्व इतरेतरसमासे मेये संख्येये च वर्तमाना एकत्व एव प्रयोक्तव्या, इतरेतरार्थं वचनम् । एकविंशतिघंटा घटानां वा, एकशतम्, द्विलक्षम्, द्विसहस्रम् । द्वन्द्वमेययोरिति किम् ? द्वे विंशती घटानां तिस्रो वा विंशत्यः, विंशत्यादेः संख्यास्थानस्यैव द्वित्व बहुत्वविवक्षायां द्विवचनबहवचने, सा चेति प्रसिद्धसंख्यापरामर्शादिह न स्यात्, एकश्चैत्राय, विंशतिमैत्रायेति एकविंशती प्राभ्यां दीयतामिति द्विवचनमेव ।। ६ ।।