SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ ४०.] • वृहत्ति -लघुन्याससंवलिते [पाद. ४ सू. ११६-११९ । ननु प्रत्ययः प्रकृतेविशेषणं भवतीति किं न पूर्यते, किमादिग्रहणात् प्रत्ययग्रहणेन ? उच्यते, आदिशब्दाभावे प्रत्ययः प्रकृतेर्विशेषणमिति कोऽर्थः ? प्रत्ययः पूर्वा प्रकृति विशेषयतीत्यर्थः स्यात्तथा च स्यादौ पूर्वस्याः प्रकृतेः स्याद्यन्तत्वं स्यात्ततः पयांसि इत्यादी जसि पूर्वस्याः प्रकृतेर्विभक्त्यन्तत्वात् ‘सो रुः' २-१-७२ इति रुत्वं स्यात, यतः किं हि वचनान्न सिध्यतीति आदिग्रहणेन प्रत्ययो गृह्यते ।। णत्वं सिद्धमिति अन्यथा 'रणवर्ण०' २-३-६३ इति एकपदत्वाभावात् णत्वं न स्यात् । गौणो ड्यादिः ॥ ७. ४. ११६ ॥ डीमारभ्य व्यं यावत् ङयादिः प्रत्ययः स गौण उपसर्जनं सन् प्रकृत्यादेः समुदायस्य विशेषणं भवति नोनाधिकस्य । कारीषगन्ध्यामतिक्रान्तः स बन्धुरस्य अतिकारीषगन्ध्यबन्धः । अतिकोमुदगन्ध्य बन्धु । अत्र येणाधिकस्याग्रहणात् 'बन्धी बहुव्रीहौ' (२-४-८३) इति ईच न भवति । गौण इति किम् । अगीणोऽधिकस्यापि समुदायस्य विशेषणं भवति, परमकारीषगन्धीबन्धुः परमकौमुदगन्धीबन्धुः । पूर्वेणैव सिद्धेऽगौणस्याधिकपरिग्रहार्थं वचनम् ।११६॥ न्या० स० कृत्सग०-भस्मनिहुतमित्यादिषु तत्पुरुषे कृति ' ३-२-२० इति सर्वत्रालुप् । कृत्सगतिकारकस्यापि ॥ ७. ४. ११७ ॥ कृत्प्रत्ययः प्रकृत्यादेः समुदायस्य गतिकारकपूर्वस्य अपिशब्दात्केवलस्यापि विशेषणं भवति, यथेह समासो भवति भस्मनिहुतम् प्रवाहेमुत्रितम तथा उदके विशीर्णम् अवतप्तेनकुलस्थितमिति सगतिकेन सकारकेण च क्तान्तेन 'क्तन' (३-१-९२) इति समासः सिद्धो भवति । तथा व्यावक्रोशी व्यावहासी सांकौटिनं सांराविणमिति 'नित्यं अजिनोऽण' (७-३-५८) इति अण् सिद्धः । 'प्रत्ययः प्रकृत्यादेः' (७-४-११५) इत्यतोऽप्राप्ते वचनम् ।११॥ परः ॥ ७. ४. ११८॥ यः प्रत्यय स प्रकृतेः पर एव भवति। अजा, खट्वा, वृक्षः, वृक्षो, वृक्षाः, जुगुप्सते, मीमांसते, कार्यम्, गम्यम्, औपगवः ।११८॥ स्पर्धे ॥ ७. ४. ११९ ॥ द्वयोविध्योरन्यत्र सावकाशयोस्तुल्यबलयोः एकत्र अनेकत्र च उपनिपातः स्पर्धः तत्र यः सूत्रपाठे परः स विधिर्भवति । 'शसोऽता सश्च नः पुसि' (१-४-४९) इत्यस्यावकाशो वृक्षान् मुनीन् । 'नपुसकस्य शिः'
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy