________________
HHI
[पाद. ४. सू. ९९-१०० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३८९ पदस्य संबन्धी गुरुर्वानन्त्योऽपि ऋकारवजितः स्वर लकारश्चैको दूरादामन्त्र्यस्यैव संबन्धी स प्लुतो वा भवति । आगच्छ भो माणव कपिलक ३, आगच्छ भो माणव कपिलक । आगच्छ भो देवदत्त ३, आगच्छ भो देवदत्त । आगच्छ भो इन्द्रभूते ३, आगच्छ भो इन्द्रभूते । आगच्छ भोः कलप्तशिख ३, आगच्छ भोः कलप्तशिख । गुरुवैकोऽनन्त्योऽपि लनृत, सक्तून् पिब दे ३ वदत्त । सक्तून् पिब देवदत्त । आगच्छ भो इ ३ न्द्रभूते, आगच्छ भो इन्द्रभू३ ते । आगच्छ भो न ३षभ, आगच्छ भो नृषभ । आगच्छ भोः कलु३प्तशिख, आगच्छ भोः क्लप्तशिख । महाविभाषयैव प्लुतविकल्पे सिद्धे वाग्रहणं न विकल्यार्थं कित्वन्यप्लुतेन सह गुरोः असमावेशार्थम् । तेन क्ल ३ प्तशिख ३ इति न भवति । दूरादिति किम् ? शृणु देवदत्त । आमन्न्यस्येति किम् ? आगच्छतु देवदत्तः। प्रधाने कार्यसंप्रत्ययादिह न भवति। आगच्छ भोः कपिलक माणव,-अत्र माणवेति कपिलक इत्यस्य विशेषणमित्यप्रधानता । गुरुरिति किम् ? अनन्त्यस्य लघोर्मा भूत् । एक इति किम् ? अनेकस्य गुरोर्योगपद्येन मा भूत् । अनन्त्योऽपीति किम् ? अन्त्यस्यैव मा भूत, लकारग्रहणमनदिति प्रतिषेधनिवृत्त्यर्थम् । अथ ऋतः प्रतिषेधे लकारस्य कः प्रसङ्गः ? उच्यते,-इदमेव ज्ञापकमवर्णग्रहणे लवर्णस्यापि ग्रहणं भवतोति, तेनाचीकलपदित्यादौ ऋवर्णकार्यम् लवर्णस्यापि सिद्धं भवति । अनदिति किम् ? कृष्णमि ३ स्त्र । कृष्णमित्र ३ । अनूदिति गुरुविशिष्यते न स्वरेष्वन्त्यस्तेनेहापि भवति । आगच्छ भोः कर्तृ ३, आगच्छ भोः कर्तृ । वाक्यस्य स्वरेष्वन्त्यः प्लुत इत्यनुवृत्तेरिह न भवति । देवदत्त अहो आगच्छ, अभिपूजितेऽपि दूरादामन्त्र्यस्यैव प्लुत इष्यते इति अभिपूजिते चेति नारम्भणीयम्, शोभनः खल्वसि माणवक ३। शोभनः खल्वसि माणवक ।९९।
न्या० स० दूरा० ऋकारवर्जित इति गुरोरेव विशेषणम् । ऋकारवर्जितः स्वर लकारश्चेति । असमावेशार्थमिति तेन यदान्त्यस्य प्लुतस्तदान्त्यस्येव न तु गुरोः, यदा तु गुरोस्तदा गुरोरेव न त्वन्त्यस्येत्यर्थः । ऋवणकार्यमिति-लुवर्णस्येति 'ऋतोऽत्' ४-१-३८ इत्येवंविधम् ऋवर्णस्य इत्यनेन लुकारस्यापि मध्ये गुणबाधनार्थम् लकारः। हेहैष्वेषामेव ॥ ७. ४. १०० ॥
दुरादामध्यस्य संबन्धिनौ यौ हेहैशब्दो को च तो यौ तदामन्त्रणे वर्तेते तयोः प्रयुज्यमानयोस्तयोरेव वाक्ये यत्रतत्रस्थयोरन्त्यः स्वरः प्लुतो वा भवति । हे ३ देवदत्त आगच्छ, आगच्छ हे ३ देवदत्त, आगच्छ देवदत्त हे