SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ । पाद. ४. सू. ९३-९५] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोध्यायः [ ३८७ ह रथेन याति उपाध्यायं पदाति गमयति, स्वयं ह ओदनं भुङ्क्ते ३ उपाध्याय सक्तून् पाययति, स्वयं ह ओदनं भुङ्क्त उपाध्यायं सक्तून् पाययति । आशिषि, सिद्धान्तमध्येषीष्ठाः ३ व्याकरणं च तात, सिद्धान्तमध्येषीष्ठा व्याकरणं च तात, पुत्रांश्च लप्सोष्ठाः ३ धनं च तात, पुत्रांश्च लप्सीष्ठाः धनं च तात । प्रेषे, त्वं ह पूर्व ग्रामं गच्छ ३ चैत्रो दक्षिणम्, त्वं ह पूर्व ग्रामं गच्छ चैत्रो दक्षिणम् । कटं च कुरु ३ ग्रामं च गच्छ ३, कटं च कुरु ग्रामं च गच्छ । त्यादेरित्येव । भवता खलु कटः कर्तव्यः ग्रामश्च गन्तव्यः । साकाङ्क्षस्येत्येव । दीर्घ ते आयुरस्तु ।९२। चितीवार्थ ।। ७. ४. ९३ ॥ ___ इवार्थे उपमायां वर्तमाने चित् इत्यस्मिन्निपाते प्रयुज्यमाने वाक्यस्य स्वरेष्वन्त्यः स्वरः प्लुतो वा भवति । अग्निश्चिद्धाया३त् अग्निश्चि । यात् । राजा चिदभूयात्, राजा चिद्भूयात् । अग्निरिव राजेवेत्यर्थः । चितीति किम् ? अग्निरिव भायात् । चितीति रूपसत्ताश्रयणादप्रयोगे न भवति । अग्निर्माणवको भायात् । इवार्थ इति किम् ? कर्णवेष्टकांश्चित्कारय । कर्णवेष्टकानेवेत्यर्थः । कथंचिदाहुः कृच्छ्रणाहुरित्यर्थः ।।३।। प्रतिश्रवणनिगृह्यानुयोगे ॥ ७. ४. ९४ ॥ प्रतिश्रवणं परोक्तस्याभ्युपगमः स्वयं प्रतिज्ञानं श्रवणाभिमुख्यं च, निगृह्य स्वमतात्प्रच्याव्यानुयोगो निग्रहपदस्याविष्करणं निगृह्यानुयोगः । उपालम्भ इति यावत् । एतयोर्वर्तमानस्य वाक्यस्य खरेष्वन्त्यस्वरः प्लुतो वा भवति । अभ्युपगमे,-गां मे देहि भोः, हन्त ते ददामि ३, हन्त ते ददामि। स्वयं प्रतिज्ञाने, नित्यः शब्दो भवितुमर्हति ३, नित्यः शब्दो भवितुमर्हति । श्रवणाभिमुख्ये,-भो देवदत्त कि मार्ष ३, कि मार्ष । मार्षेति श्रवणाभिमुख्यद्योतको निपातः । निगृह्यानुयोगे, अद्य श्राद्धमित्यात्थ ३ । अद्य श्राद्धमित्यात्थ । अझ श्राद्धेति वादी युक्त्या स्वमतात्तच्याव्यवमुपालभ्यते ।।४। विचारे पूर्वस्य ॥ ७. ४. ९५ ॥ किमिदं स्यात् किमिदमिति निरूपणं विचारः संशय इति यावत् । तस्मिन् विषये संशय्यमानस्य यत्पूर्व तस्य स्वरेष्वन्त्यः स्वरः पलतो वा भवति । अहिर्नु ३ रज्जुन, अहिर्न रज्जुर्नु, स्थाणुर्नु ३ पुरुषो नु, स्थाणुर्नु पुरुषोनु ।६५।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy