________________
३८४ ] बृहवृत्ति-लघुन्याससंलिते [पाद. ४ सू० ८४-८७ ]
न्या० स० रहस्य०-रहस्यं मन्त्रयन्त इत्यर्थ इति अत्र द्वंद्वशब्दो रहस्यार्थः, न तु द्विशब्दार्थः संख्या काचिदस्ति, यदनेकार्थः
'द्वंद्वः स द्वंद्वमाहवे रहस्ये मिथुने युग्मे' इति । लोकज्ञातेत्यन्तसाहचर्ये ॥ ७. ४. ८४ ॥
लोकज्ञातेऽत्यन्तसाहचर्ये घोत्ये द्विशब्दस्य पूर्ववत् द्वन्द्वमिति निपात्यते। द्वन्द्वं नारदपर्वतो, द्वन्द्वं रामलक्ष्मणौ, द्वन्द्व बलदेववासुदेवी, द्वन्द्वं स्कन्दविशाखौ, द्वन्द्वं शिववैश्रवणौ। लोकज्ञात इति किम् ? द्वौ चैत्रमैत्री । अत्यन्त साहचर्य इति किम् ? द्वौ युधिष्ठिरार्जुनौ । द्वन्द्वमिति च सूत्रत्रयेऽपि नपुंसकम् वेदितव्यमनुप्रयोगस्य नपुंसकत्वार्थम् ॥८४।। आबाधे ॥ ७. ४. ८५॥
आबाधो मन:-पीडा प्रयोक्तृधर्मः, तस्मिन् विषये वर्तमानं शब्दरूपं दिरुच्यते तत्र चादौ पूर्वपदे स्यादेः प्लुप् भवति । ऋक ऋक्, पू: पूः, गतगतः, नष्टनष्टः, गतगता, नष्टनष्टा । नन करोमि । ऋगादेर्दुरुच्चारणादिना पीडद्यमान: प्रयोक्ता एवं प्रयुङ्क्ते । अष्टमी अष्टमी कालिका कालिका इत्यत्र तु पूरणप्रत्ययान्तत्वात् कोपान्त्यत्वाच्च पुवद्भावो न भवति ।।८५॥
न्या. स. आबा.-कालिकाकालिकेति 'गौरादिभ्य' २-४-१९ इति ड्या काल्येव यावादिभ्यः कः' ७-३-१५॥ नवा गुणः सदशे रित् ॥ ७. ४. ८६ ॥
गुणशब्दो मुख्यसदृशे गुणे गुणिनि वा वर्तमानो वा द्विरुच्यते तत्र चादी वर्तमानस्य स्यादेः प्लुप् भवति सा च रित् । रित्करणं प्रतिपिद्धस्यापि पुंवद्भावस्य ' रिति ' (३-२-५८) इति विधानार्थम् । शुक्लशुक्लं रूपम्, शुक्लशुक्ल: पटः, कालककालिका, शुक्लादिसदृशमपरिपूर्णगुणमेवमुच्यते। वाग्रहणात्पक्षे जातीयरपि भवति । शुक्लजातीयः, पटुजातीयः । गुण इति किम ? अग्निर्माणवकः, गौर्वाहीकः । सदा गुणवाची यः स इह गणशब्दो गह्यते । अयं तूपमानात्प्रारद्रव्यवाची पश्चात्तु तैक्ष्ण्य जाड्यादिगुणवाचीति न भवति । सदृश इति किम् ? शुक्लः पटः, पटुश्चत्रः ।८६।
न्या० स० नवा-कालककालिकेति 'भाजगो' २-४-३० इति ज्यां काल्येव कालिका । प्रियसुखं चाकृच्छे ॥ ७. ४. ८७ ॥
प्रिय सुखशब्दो अकृच्छे क्लेशाभावे वा द्विरुच्येते तत्र चादौ शब्दरूपस्य