SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० १४७-१५१ ] ३४६ ] वोपमानात् ।। ७. ३. १४७ ।। उपमानात्परो यो गन्धशब्दस्तदन्ताद्बहुव्रीहेरित्समासान्तो वा भवति । उत्पलस्येव गन्धोऽस्य उत्पलगन्धि उत्पलगन्धं वा मुखम्, करीषगन्धि करीषगन्धं वा शरीरम् ॥ १४७॥ पात्पादस्याहस्त्यादेः ।। ७. ३. १४८ ।। हस्त्यादिर्वाजतादुपमानात्परस्य पादशब्दस्य बहुव्रीहौ पादित्ययमादेशः समासान्तो भवति । व्याघ्रस्येव पादावस्य व्याघ्रपात, सिंहपाद्, ऋक्षपाद् । अहस्त्यादेरिति किम् ? हस्तिन इव पादावस्य हस्तिपादः, अश्वपादः । हस्तिन्, अश्व, कटोल, कटोलक, कण्डोल, कण्डोलक, गण्डोल, गण्डोलक, गडोल, गडोलक, गण्ड, महेला, दासी, गणिका, कुसूल, कपोत, जाल, अज इति हस्त्यादिः । १४८ कुम्भपद्यादिः ॥ ७ ३. १४९ ।। कुम्भपद्यादयः शब्दाः कृतपात्समासान्ता ङयन्ता एवं बहुव्रीहयो निपात्यन्ते । कुम्भाविव पादावस्याः कुम्भपदी, जालपदी, एकपदी, शतपदी, स्थूणापदी, सूत्रपदी, मुनिपदी, शितिपदी, आर्द्रपदी, गोधापदी, कलशीपदी, दासीपदी, विष्णुपदी, कृष्णपदी, कुणिपदी, गुणपदी, द्रोण (णी) पदी, सकृत्पदी, सूकरपदी, शुचिपदी, सूचीपदी, विपदी, अपदी, निष्पदी, अष्टापदी, अशीतिपदी, इति कुम्भपद्यादिः । येऽत्रोपमानपूर्वास्तेषां पूर्वेण संख्यादीनां चोत्तरेण सिद्धे यदि वचनं तेन 'वा पादः ' (२-४-६ ) इति ङीविकल्पो न भवति । कथमेकादिति ? केचिदिहैकपदीशब्दं न पठन्ति । १४९ । न्या० स० कुम्भ० अष्टापदीति संज्ञायां ' नाम्नि' ३-२-७५ इत्यसंज्ञायां तु निपातनाद् दीर्घः । सुसंख्यात् ॥ ७ ३. १५० ॥ सुपूर्वस्य संख्यापूर्वस्य च पादशब्दस्य बहुव्रीहौ पादित्ययमादेशः समासान्तो भवति । शोभनौ पादावस्य सुपाद्, द्विपाद्, त्रिपात्, चतुष्पात् । स्त्रियां तु वा पाद: ' - ( २-४-६ ) इति पक्षे ङीः । सुपदी सुपात् द्विपदो द्विपात् ।१५० " वयसि दन्तस्य दतृ ॥ ७. ३. १५१ ॥ सुपूर्वस्य संख्यापूर्वस्य च दन्तशब्दस्य बहुव्रीहौ वयसि गम्यमाने दतृ
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy