________________
पपाद. २. सू. ११९-१२२ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २८७ ‘पश्चाद्वसति, दक्षिणपश्चाद्रमणीयम्, दक्षिणपश्चादागतः, दक्षिणपश्चाद्वसति ।' "पचोऽपरस्य'---(७-२-१२४) इत्यादिना पश्चादेशः । दक्षिणाद्रमणीयम्, दक्षिणादागतः, दक्षिणाद्वसति । उत्तराद्रमणीयम्, उत्तरादागतः, उत्तराद्वसति । ११८। ___ न्या० स० अघ०-त्ररूप्यमिति अधः अधस्तात् अधरात् । पश्चादरमणीयमिति पश्चादेशोदन्तः कार्यः पश्चार्धमित्यादिसिद्धयर्थं ततः 'अवर्णेवर्णस्य' ७-४-६८ । __दक्षिणपश्चादिति दक्षिणा च सा अपरा च दक्षिणापरा 'सर्वोदयोस्यादौ' ३-२-६१ इति पुं भावे दक्षिणापरा. दिगरमणीया, “पक्षोऽपरस्य' ७-२-१२४ इति सूचनात् तदन्तादपि प्रत्ययः ।
वा दक्षिणात्पथमासप्तम्या आः ॥ ७. २. ११९ ॥ ___ दक्षिणशब्दादिग्देशवृत्तेः प्रथमान्तात्सप्तम्यन्ताच्च आः प्रत्ययो भवति वा । दक्षिणा रमणीयम्, दक्षिणा वसति, पक्षे अतसातौ । दक्षिणतो रमणीयम्, दक्षिणतो वसति, दक्षिणाद्रमणीयम, दक्षिणाद्वसति । पञ्चम्यां सावकाशावतसातावाकारो बाधेतेत्ति चाग्रहणम् । प्रथमासप्तम्या इति किम् ? दक्षिणत आगतः, दक्षिणादागतः ।११६।
आही दूरे ॥ ७. २. १२०॥
दिकशब्दा अवध्यपेक्षाः । तत्रावधेर्दू रे दिशि देशे वा वर्तमानात् प्रथमासप्तम्यन्तात् दक्षिणशब्दादा आहि इत्येतो प्रत्ययो भवतः । ग्रामाद् दूरा दक्षिणा दिग्देशो वा रमणीयः ग्रामाद्दक्षिणा रमणीयम्, दक्षिणाहि रमणीयम्, दक्षिणा वसति, दक्षिणाहि वसति । दूर इति किम् ? दक्षिणः दक्षिणात् दक्षिणा रमणीयम्, आहिर्न भवति । आकारस्तु पूर्वेण सामान्येन विधानाद्भवत्येव । यद्येवमिहाकार ग्रहणं किमर्थम् ? विशेषविहितेनाहिना बाधो मा भूदित्येवमर्षम् उत्तरार्थं च । प्रथमासप्तम्या इत्येव ? दक्षिणत आगतः ।१२०॥
न्या० स० आहो०-अधध्यपेक्षया इति यथायमस्मात् पूर्व इत्यादि । वोत्तरात्ः ॥ ७. २. १२१ ॥
उत्तरशब्दात्प्रथमासप्तम्यन्तात् आ आहि इत्येतौ प्रत्ययौ वा भवतः, योगविभागाद्र इति नानुवर्तते । उत्तरा रमणीयम्, उत्तरा वसति, उत्तराहि रमणीयम्, उत्तराहि वसति, पक्षे अतसाती, उत्तरतः, उत्तरात् । प्रथमासप्तम्या इत्येव ? उत्तरतः, उत्तरादागतः ।१२१। अदरे एनः ॥७. २. १२२ ।। बोत्तरादिति नानुवर्तते, दिक्शब्दादिग्देशकालवृत्तेः प्रथमासप्तम्यन्ता