SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ [पाद. २. सू ३८-४३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२६७ प्रकृत्यन्तरं वा। चूद्रशब्दाभ्यां मत्वर्थे मः प्रत्ययो भवति । द्योद्युस्यिास्मिन्वास्तीति धुमः । द्रूणि दारूण्यस्यास्मिन्वा सन्ताति द्रुमः । रूढिशब्दाविमौ रूढिविषये च मतुर्न भवति । अन्यत्र तु मतुरेव । घुमान्, द्रुमान् ।३७। काण्डाण्डभाण्डादीरः ॥ ७. २. ३८॥ काण्ड आण्ड भाण्ड इत्येतेभ्यो मत्वर्थे ईर: प्रत्ययो भवति मतुश्च । काण्डीरः, काण्डवान्, आण्डीरः, आण्डवान्, भाण्डीरः, भाण्डवान् । आण्डौ मुष्कौ ।३८ न्या० स० काण्डा०-आण्डीर इति एकदेशेति न्यायात् श्लिष्टनिर्देशाद्वा अण्डीर इत्यपि गौडजयौ। कच्छवा डुरः ॥ ७. २. ३९ ॥ .. कच्छूशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । कच्छरः, कच्छूमान् ।३९। दन्तादुन्नतात् ।। ७. २. ४० ॥ उन्नतत्वोपाधिकाद्दन्तशब्दान्मत्वर्थे डुरः प्रत्ययो भवति । उन्नता दन्ता अस्य सन्ति दन्तुरः । उन्नतादिति किम् ? दन्तवान् ।४०। न्या. स० दन्ता०-दन्तवानिति निर्गतत्वमुन्नतत्वं, प्रमाणातिरेकस्तु वृद्धिरिति भिन्नत्वं, तत्रोन्नतत्वे दन्तुरः, विवृद्धिविवक्षायां तु 'स्वाङ्गाद्विवृद्धात्' ७-२-१० इति 'आयात' ७-२-२ इति च दन्तिलो, दन्ती, दन्तिको, दन्तवानिति यथायोगं भवति, उन्नतार्थो मतुना न गम्यते इत्यत्र मतुर्न भवति । मेधास्थान्नवरः ॥ ७. २, ४१ ॥ मेघारथ इत्येताभ्यां मत्वर्थे इरः प्रत्ययो वा भवति, वावचनाद्यथाप्राप्तिमिकेनौ आ यादिति मतुश्च । मेधिरः । मेधावान् । उत्तरसूत्रेण विन्नपि । मेधावी, रथिरः, रथिकः, रथो, रथवान् ।४१। कृपाहृदयादालुः ॥ ७. २. ४२॥ कृपाहृदयशब्दाभ्यां मत्वर्थे आलुः प्रत्ययो वा भवति मतुश्च । कृपालुः कृपावान, हृदयालुः, हृदयिकः, हृदयी, हृदयवान् ।४२। केशादः ॥ ७. २. ४३ ॥ केशशब्दान्मत्वर्थे वः प्रत्ययो वा भवति मतुश्च । केशवः, केशिकः, कशी, केशवान् । केशव इति रूढिशब्दोऽपि विष्णुवाची ।४३। न्या० स० वे श .-रूढिशब्दोऽपीति न केवलं यस्य केशाः सन्ति स केशवः, किन्तु विष्णुरपि ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy