________________
( पाद. २. सू. १४-१९] श्री सिद्ध हेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः
[ २६१
फलिनः फलवान्, बर्हिणः, बर्हवान् शृङ्गिणः, शृङ्गवान् । शिखादित्वात् फली बर्हो |१३|
मलादीमसश्च ।। ७. २. १४ ॥
मलशब्दान्मत्वर्थे ईमस इनश्च प्रत्ययौ भवतः मतुश्च । मलीमसः, मलिनः, मलवान् ।१४।
मरुत्पर्वणस्तः ।। ७. २. १५ ॥
मरुत्पर्वन् इत्येताभ्यां मत्वर्थे त: प्रत्ययो भवति मतुश्च । मरुतः, मरुत्त्वान् पर्वतः, पर्ववान् । १५ ।
वलिवटितुण्डेर्भः ॥ ७२. १६ ॥
वलि टिडि इत्येतेभ्यो मत्वर्थे भः प्रत्ययो भवति । वलिभः, वलिन इत्यङ्गादित्वान्न । वटिभ, तुण्डिभः । सिध्मादिपाठाल्ले तुण्डिलः, मतुश्व । वलवान्, प्रवृद्धा नाभिस्तुण्डिः | १६ |
न्या० स० वलिव० - वटिरुनतनाभ्यर्थः, एकदेश इति न्यायात्तुन्दिशब्दादपि भे तुन्दिभ इति क्षीरः ।
ऊर्णाहंशुभमो युस् ।। ७. २. १७ ॥
ऊर्णा अहम् शुभम् इत्येतेभ्यो मत्वर्थे युस् प्रत्ययो भवति । ऊर्णायुः उरभ्रः, अहंयुः अहंकारी, शुभंयुः कल्याणबुद्धिः | १७|
कंशंभ्यां युस्तियस्तुतवभम् ।। ७. २. १८ ।।
कम्, शम् इत्येताभ्यां मत्वर्थे युस्, ति, बस्, तु, त, व, भ इत्येते प्रत्यया भवन्ति ।
--
कंयुः, शंयुः, कन्तिः, शंतिः, कंयः, शंयः, कंतुः, शन्तुः, कन्तः, शन्तः, कंवः, शंवः, कंभः, शंभः । युस्यसोः सकारो नाम सिदव्यञ्जने '( १ - १ - २१ ) इति पदत्वार्थः तेन 'तौ मुमो व्यञ्जने स्वौ (१-३-१४ ) इत्यनुस्वारानुनासिको सिद्धौ । कंयुः, कय्युः, शंयः, शय्यः | १८ |
"
बलवातदन्तललाटा दूलः ।। ७. २. १९ ॥
एभ्यो मत्वर्थे ऊलः प्रत्ययो भवति । बलूल:, वातूल:, दन्तूल:, ललाटूलः । मतुश्च । बलवान्, वातवान्, दन्तघान् ललाटवान् । १९ ।