SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ अहम् ॥ अनंतलब्धिनिधानाय श्रीगौतमस्वामिने नमः ॥ । पूज्यपादाचार्य देवश्रीमद् दान-प्रेम-रामचन्द्र-भद्रङ्करसद्गुरुभ्यो नमः । - कलिकालसर्वज्ञ श्रीहेमचन्द्रसूरिभगवत्प्रणीतंश्रीसिद्धहेमचन्द्रशब्दानुशासनम् । [ स्वोपज्ञतत्त्वप्रकाशिकाभिधबृहद्वृत्ति-मनीषिकनकप्रभसूरिविरचितन्याससारसमुद्धार (लघुन्यास)-संवलितम् ] [तत्र-षष्ठोऽध्यायः] तद्धितोऽणादिः ॥ ६. १. १॥ अणादिः प्रत्ययो य इत ऊर्ध्व वक्ष्यते स तद्धितसंज्ञो विज्ञेयः । औपगवः, कापटवः । तद्धितंप्रदेशाः 'ऋतो रस्तद्धिते' (१-२-२६) इत्यादयः ॥१॥ न्या० स.-तद्धितोऽणादिः-तस्मै लौकिक-वैदिकशब्दसंदर्भाय ताभ्यः प्रकृतिभ्यो विकृतिभ्यो वा हितः, आधं मतं जैनेन्द्रस्य, द्वित्तीयमुत्पलस्य । हितादिभिः' ३-१-७१ इति समासः। पौत्रादि वृद्धम् ॥ ६. १. २ ॥ परमप्रकृतेः अपत्यवतो यत्पौत्राद्यपत्यं तद्वद्धसंजं भवति । गर्गस्यापत्यं पौत्रादि गार्ग्यः, एवं वात्स्यः । पौत्रादीति किम् ? अनन्तरापत्ये गार्गिः वात्सिरित्येव भवति, पौत्रस्यापत्यत्वात् तदाद्यपत्यमेव विज्ञायते। वृद्धप्रदेशाः 'वृद्धानि' (६-१-३०) इत्यादयः ॥२॥ न्या० स० पौत्रादि वृद्धम्-अपत्यवत इति-विशेष्यं परमप्रकृतेरिति विशेषणं, अन्यथा परमप्रकृतविशेष्यत्वे अपत्यषत इत्यस्य स्त्रीत्वं स्यात्, परमा प्रकृष्टा प्रकृतिः परमप्रकृतिर्यस्मात परोऽन्यो न ज्ञायते. यद्यपि पितामहप्रपितामहादिनीत्या वृद्धसंतानस्यानन्त्यं तथापि यन्नाम्ना कुलं व्यपदिश्यते स परमप्रकृतिरित्युच्यते । ___ गार्ग्य इति-बाहादोबो बाधको गर्गादेर्यञ् । गार्गिरिति-अन्न इमो बाधक ऋष्यण प्राप्नोति, तद्बाधनाय बाहादित्यादि ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy