SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ २१६ ] बृहवृत्ति-लघुन्याससंवलिते • १ सू. ५५ प्रत्ययार्थ इति वदन्तोऽत्रापि जातिमेव त्वतलादिप्रत्ययप्रवृत्तिनिमित्तमभिदधति । ननु च समासकृत्तद्धितेभ्योऽपि भाव प्रत्ययेन जातिरेवाभिधीयते गौरखरत्वं लोहितशालित्वं सप्तपर्णत्वं धवखदिरत्वमिति, कुम्भकारत्वं तन्तुवायत्वं स्तम्बे. रमत्वं पङ्कजत्वमिति, हस्तित्वं मानुषत्वं क्षत्रियत्वं राजन्यत्वमिति उच्यते, समासकृत्तद्धितेषु संबन्धाभिधानमन्यत्र रूढयभिन्नरूपाव्यभिचरितसंबन्धेभ्यः, तत्र रूढयो गौरखरादय उदाहृता एव, अभिन्नरूपास्तु तद्धितान्ता एव लुबादिभिः संभवन्ति गर्गत्वं पञ्चालत्वमिति, अत्र गर्गादयः शब्दा यसोलु पि यद्यपि तद्धितान्तास्तथापि मूलप्रकृत्या सह सहविवक्षायामभिन्नरूपत्वात् प्रत्ययोत्पत्तिहेतुः संबन्धो न्यग्भूत इति अभिन्नशब्दाभिधेयतैव भावप्रत्ययात्प्रतीयते न संबन्धः, अथ पञ्चालशब्दात् युगपदपत्य जनपदाभिधायिनो भावप्रत्ययेन किमभिधीयते ? प्रवृत्तिनिमितसंघातः यथा धवखदिरत्वमिति जातिसंहतिः । एतेन अक्षत्वं पादत्वं माषत्वमित्यादीन्यपि व्याख्यातानि । अव्यभिचरितसंबन्धास्तु प्रायः कृत्स्वेव भवन्ति । सतो 'भावः सत्त्वं सत्ता विद्यमानत्वं विद्यमानता, अत्र हि जातावेव भावप्रत्ययः । न हि सद्वस्तु सत्तासंबन्धस्य व्यभिचरतीति सत्तासंबन्धानपेक्षणान्न संबन्धे । पाचक इत्यादौ तु संबन्धस्य कादाचित्कत्वात् तदपेक्षः पाचकादिशब्द; स्वार्थमभिधत्त इति ततः सम्बन्धे प्रत्ययो युक्तः । तस्मात्सत्सु विद्यमानेषु च पदार्थेषु नित्यसमवायिनी शब्दप्रवृत्तिहेतुः सत्त्व भावप्रत्ययवाच्या न तु सत्सत्तयोः संबन्धः कश्चित् इति। ततः स्थितमेतत् रूढयादिभ्योऽन्यत्रैव कृत्तद्धितसमासेषु संबन्धाभिधानमिति । 'त्वे वा' (६-१-२६ ) इति वचनात्स्त्रीपुंसाभ्यां पक्षे नस्नावपि भवतः। स्त्रीत्वं स्त्रोता स्वंणम् । पुस्त्वं पुंस्त। पौंस्नम् इति । लकारः स्त्रीत्वार्थः । त्वान्तम् आ त्वात्त्वादिः' इति नपुंसकम् । ५५ । न्या० स० भावे०-अभिधानप्रत्ययाविति यद्यपि पूर्व ज्ञानं पश्चाच्छब्द इति क्रमस्तथापि स्वराद्यदन्तत्वात् अभिधानस्य 'लध्वक्षर' ३-१-१६० इति पूर्वनिपात एवमाह-पृथग्भूताद्यर्थ इति-ननु पृथगादिशब्दानामव्ययानामसत्ववाचित्वात् कथमत्र भावप्रत्ययो नह्यसत्वादसत्वे प्रत्ययो भावो ह्यसत्वरूप इति आशङ्का ? ____डित्थादेंः स्वरूपे इति डित्थादैस्तस्मिन्नेव स्वरूपे धर्मे प्रत्ययो भवति, कथंभूतात् डिस्थादेर्यदृच्छाशब्दादत एवान्यस्य प्रवृत्तिनिमित्तस्यासंभवात् , ननु यदि स्वरूप एव प्रत्ययो भवति तर्हि डिस्थस्य भाव इति वाक्ये भावशब्दोपादानं न प्राप्नोति यतो डित्थशब्देनापि स्वरूपमभिधीयते, भावशब्देनापि तदेवोच्यते तत्कथं भावशब्दोपादानम् ? इत्याह-अध्यवसितभेदे
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy