________________
[पाद. १. सू. ४१-४४] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२११ पञ्चसर्वविश्वाज्जनात्कर्मधारये ॥ ७. १. ४१ ॥
पञ्च सर्व विश्व इत्येतेभ्यः पराज्जनशब्दात्कर्मधारये वर्तमानात्तस्मै हिते ईनः प्रत्ययो भवति, ईयापवादः । पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः, रथकारपञ्चमस्य चातुर्वर्ण्यस्य पञ्चजन इति संज्ञा एवं सर्वजनीनः, विश्वजनीन: । कर्मधारय इति किम् ? पञ्चानां जनः पञ्चजनः, तस्मै हितः पञ्चजनीयः । सर्वोजनोऽस्य सर्वेषां वा जनः, सर्वजनः, तस्मै हितः सर्वजनीयः, एवं विश्वजनीयः ।४१
न्या० स० पञ्च० रथकारपश्चमस्येति द्वादशधा भिन्नस्य शूद्रस्य त्रैवर्ण्यस्य च मध्ये न पततीति रथकारस्य पृथगुपादानं, यत आरथकृन्मिश्रजातंय इत्युक्तं, रथकास्य तु किं लक्षणम् ? इति चेत् , उच्यते-माहिष्येण तु जातः स्यात् करण्यां रथकारकः, वेश्यायां क्षत्रियाजातो माहिष्य उच्यते, वृषलस्त्रियां वैश्यात्तु करणः बी चेत् करणी।
महत्सर्वोदिकण् ॥ ७. १. ४२॥
__ महतः सर्वाच्च यो जनशब्दस्तदन्ताकर्मधारये वर्तमानात्तस्मै हिते इकण प्रत्ययो भवति । महते जनाय हितः माहाजनिकः, सर्वस्मै जनाय हितः सार्वजनिकः, एवं च सर्वजनात्पूर्वेण ईनः अनेनेकणिति द्वैरूप्यम् । कर्मधारय इत्येव ? महान् जनोऽस्य महाजनः, तस्मै हितः महाजनीयः, सर्वेषां जनाय हितं सर्वजनीयम् ।४२। सर्वाणो वा ॥ ७. १. ४३ ॥
जनात्कर्मधारय इति च निवृत्तम्, सर्वशब्दात्तस्मै हिते णः प्रत्ययो वा . भवति । सर्वस्मै हितः सार्वः, पक्षे ईयः सर्वीयः ।४३। परिणामिनि तदर्थे ॥ ७. १.४४ ॥
हित . इति निवृत्तम्, तद्भावः परिणामस्सोऽस्यास्तीति परिणामि द्रव्यमुच्यते, तस्मै इति चतुर्थ्यन्तात्तदर्थे चतुर्थ्यन्तार्थार्थे परिणामिनि कारणद्रव्येऽभिधेये यथाधिकृतं प्रत्ययो भवति । अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि, अङ्गारार्थानीत्यर्थः । एवं प्राकारीया इष्टकाः, शङ्कव्यं दारु, पिचव्यः कासः आमिक्ष्यम् आमिक्षीयं दधि, ओदन्या ओदनीयास्तण्डुलाः । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनीति किम् ? उदकाय कपः, असये कोशी। न कूपः कोशी वा उदकासिभावेन परिणमेते । तदर्थे इति किम् ? मूत्राय यवागूः, उच्चाराय यवान्नम्, पादरोगाय नड्वलोदकम् । यवाग्वादि