SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ [ पाद ४. सू. १२३-१२८ ] श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोध्यायः स्वर्गस्वस्तिवाचनादिभ्यो यलुपौ ।। ६. ४. १२३ ॥ स्वर्गादिभ्यः स्वस्तिवाचनादिभ्यश्च यथासंख्यं तदस्य प्रयोजनमित्यस्मिन् विषये यः प्रत्ययो लुप् च भवतः, स्वर्गादिभ्यो यः । स्वर्गः प्रयोजनमस्य स्वर्ग्यम्, यशस्यम्, आयुष्यम्, काम्यम्, धन्यम्, स्वस्तिवाचनादिभ्य इकणो लुप् । स्वस्तिवाचनं प्रयोजनमस्य स्वस्तिवाचनम्, शान्तिवाचनम्, पुण्याहवाचनम्, स्वर्गादयः स्वस्तिवाचनादयश्च प्रयोगगम्याः । गणद्वयोपादानाद्वचनभेदेऽपि यथासंख्यम् । १२३ । [ १८५ समयात् प्राप्तः ।। ६. ४. १२४ ॥ सोऽस्येत्यनुवर्तते । समयशब्दात्प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति योऽसौ प्रथमान्तः प्राप्तश्चेत्स भवति । समयः प्राप्तोऽस्य सामायिकं कार्यम्, उपनतकालमित्यर्थः । १२४ | ऋत्वादिभ्योऽण् ॥। ६. ४. १२५ ।। ऋतु इत्येवमादिभ्यः सोऽस्य प्राप्त इत्यर्थे अण् प्रत्ययो भवति । ऋतुः प्राप्तोऽस्य आर्तवं पुष्पफलम्, उपवस्ता प्राप्तोऽस्य औपवस्त्रम्, प्राशिता प्राप्तोऽस्य प्राशित्रम् । ऋत्वादयः प्रयोगगम्याः । १२५ । न्या० स० ऋत्वा॰—औपवस्त्रमिति उपोषितपारण के यद्भक्ष्यद्रव्यं तदौपवस्त्रं यद्वैदिकम् - 'माषान्मधुमसुरांश्चवर्जयेदौपवस्त्र के ' पुरुषस्तूपवस्ता । प्राशित्रमिति बालस्य यत्प्रथमं भोजनं तदुच्यते प्राशित्रम् । कालाद्यः ।। ६. ४. १२६ ।। कालशब्दात्सोऽस्य प्राप्त इत्यर्थे यः प्रत्ययो भवति । कालः प्राप्तोऽस्य काल्यस्तापसः, काल्मा मेघाः । १२६ । दीर्घः ॥ ६. ४. १२७ || कालशब्दात्मप्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति योऽसौ प्रथमान्तः स चेद्दीर्घो भवति । दीर्घः कालोस्य कालिकमृणम्, कालिकं वैरम्, कालिकी संपत्, योगाविभागादिकण् । यविधाने हि कालाद्यो दीर्घश्वेत्येकमेव सूत्रं क्रियेत । १२७ । आकालिकमिकश्चाद्यन्ते ॥ ६. ४. १२८ ॥ आकालिकमिति शब्दरूपमिकान्तमिकणन्तं च निपात्यते, आकालशब्दादिक इकण् च भवत्यर्थे भवतीत्यर्थः । आद्यन्ते आदिरेव यद्यन्तो गम्यते ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy