________________
१७८ ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. ४. सू. ९४-९७ ] ज्ञेयो भवति । संशयं प्राप्तः सांशयिकः, सांशयिकोऽयमूवो न जाने स्थाणुरुत पुरुष इति, सांशयिकश्चैत्रो न जाने जीवति उत मृत इति । ज्ञेय इति किम् ? संशयितरि माभूत्, सोऽपि हि संशयं प्राप्तो भवति, तस्य तत्र भावात् ।९३। तस्मै योगादेः शक्ते ॥ ६. ४. ९४ ॥
योगादिभ्यस्तस्मै इति चतुर्थ्यन्तेभ्यः शक्तेऽर्थे इकण प्रत्ययो भवति । योगाय शक्तः यौगिकः, सांतापिकः योग, सन्ताप, सन्नाह, संग्राम, संयोग, संपराय, संघात, संपाद, संपादन, संक्रम, संपेष, संवेश, संमोदन, निष्पेष, निःसर्ग, निर्घोष, निसर्ग, विसर्ग, उपसर्ग, प्रवास, उपवास, सक्तु, मांस, ओदन, मांसौदन, सक्तुमांसौदन इति योगादिः ।९४। योगकर्मभ्यां योकत्रौ ॥ ६. ४. ९५ ॥
आभ्यां चतुर्थ्यन्ताभ्यां शक्तेऽर्थे यथाक्रमं य उकञ् इत्येतौ प्रत्ययौ भवतः। योगाय शक्तः योग्यः । कर्मणे शक्त कार्मुकम् । एवं योगशब्दस्य द्वैरूप्यम् ।९५। यज्ञानां दक्षिणायाम् ।। ६. ४. ९६ ॥
यज्ञवाचिभ्यो निर्देशादेव षष्ठयन्तेभ्यो दक्षिणायामर्थे इकण् प्रत्ययो भवति, यज्ञकर्मकृतां वेतनादानं दक्षिणा। अग्निष्टोमस्य दक्षिणा आग्निष्टोमिकी, वाजपेयिकी राजसूयिकी, नावयज्ञिको, पाञ्चौदनिकी ऐकादशाहिकी, द्वादशाहिकी, द्वैवाजपेयिकी, बहुवचनं स्वरूपविधेयुदासार्थम् ।९६।
न्या० स० यज्ञा-नावयज्ञिको इति नवानां यज्ञानां दक्षिणा तद्धितविषये सः ।
पाचौदनिकीति पञ्चसु ओदनेषु भवः अण, तस्य लुप्, पञ्चौदनस्य दक्षिणा । ऐकादशाहिकीति एकादशानामह्नां समाहारः, 'द्विगोरनह्नः' ७-३-९९ इत्यद्, एकादशाहेन निर्वो यागोप्येकादशाहः, तस्य दक्षिणा ।
द्ववाजपेयिकीति द्वयोर्वाजपेययोर्दक्षिणा इति तद्धितविषये द्विगुः । तेषु देये ॥६. ४. ९७॥
यज्ञवाचिभ्यस्तेष्विति निर्देशादेव सप्तम्यन्तेभ्यो देयेऽर्थे इकण् प्रत्ययो भवति । अग्निष्टोमे देयम् अग्निष्टोमिकम् । वाजपेयिकं भक्तम् ।९७।।
न्या० स० तेषु० - ननु यदग्निष्टोमे देयं तदग्निष्टोमे भवति, तत्र 'ऋगृद्विस्वरयागेभ्यः' ६-३-१४४ इतीकण भविष्यति किमर्थमिदं वचनम् ? उच्यते, तत्र 'तस्य व्याख्याने च' ६-३-१४२ इत्यतो ग्रन्थादित्यधिकृतेऽग्निष्टोमादिविधायके ग्रन्थे वर्तमानादग्निष्टोमादेरिकण् विहितः, इह त्वर्थात्मन इति विषयभेदः, किं च द्वयोर्वाजपेययोर्देयं द्वैवाजपेयिकमिति इकण