________________
१७२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० ६५-६८ ]
वेष्टयादिभ्यः ।। ६. ४. ६५ ।। ___ इष्टि इत्येवमादिभ्यस्तदस्य प्रहरणमित्यस्मिन्विषये टीकण वा भवति, पक्षे प्रहरणमितीकण् । इष्टिः प्रहरणमस्य ऐष्टीकः, ऐष्टीकी, ऐष्टिकः, ईषा प्रहरणमस्य ऐषोकः, ऐषीकी, ऐषिकः। कम्पनं प्रहरणमस्य काम्पनीकः, काम्पनीकी, काम्पनिकः, अम्भःप्रहरणः आम्भसीकः, आम्भसीकी, आम्भसिकः, दण्डप्रहरणः दाण्डीकः, दाण्डीकी, दाण्डिकः, इष्टथदयः प्रयोगगम्याः ।६५। नास्तिकास्तिकदैष्टिकम् ॥ ६. ४. ६६ ॥
एते शब्दास्तदस्येत्यस्मिन्विषये इकण्प्रत्ययान्ता निपात्यन्ते, निपातनं रूढयर्थम् । नास्ति परलोकः पुण्यं पापमिति वा मतिरस्य नास्तिकः, अस्ति परलोक: पुण्यं पापमिति वा मतिरस्य आस्तिकः, नास्त्यस्तिशब्दौ तिवादिप्रतिरूपके अव्यये । निपातनादेव वा तदिति प्रथमाधिकारेऽपि आख्यातान्नास्तीति पदसमुदायाच्च प्रत्ययः, दिष्टं दैवं तत्प्रमाणमिति मतिरस्य दिष्टा वा प्रमाणानुपातिनी मतिरस्य दैष्टिकः ।६६।
न्या० स० नास्ति०-अव्यये इति तयोश्च परतः प्रथमैकवचनम् । वृत्तोऽपपाठोऽनुयोगे ॥ ६. ४. ६७ ।।
तदस्येति वर्तते । तदिति प्रथमान्तादस्येति षष्ठ्यर्थे इकण् प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेदनुयोगविषये वृतोऽपपाठो भवति, अनुयोगः परीक्षा। एकमन्यदपपाठोऽनुयोगे वृत्तमस्य ऐकान्यिकः, द्वैयन्यिकः, त्रैयन्यिकः, संख्यान्यशब्दयोस्तद्धिते विषयभूते समासः, ततस्तद्धितः । वृत्तोऽपाठोऽनुयोग इत्यस्य तु वृत्तावन्तर्भावादप्रयोगः । अन्यत्वं चापपाठस्य सम्यक्पाठापेक्षम् । वृत्त इति किम् ? वर्तमाने वय॑ति च न भवति । अपपाठ इति किम् ? एकमभ्यदस्य दुःखमनुयोगे वृत्तम्, जयोऽनुयोगे वृत्तः । अनुयोग इति किम् ? स्वैराध्ययने माभूत् । अन्ये स्वपपाठादन्यत्राप्यध्ययनमात्रे प्रत्यय मिच्छति, एक रूपमध्ययने वृत्तमस्य ऐकरूपिकः, ऐकग्रिन्थकः ॥६७।
बहुस्वरपूर्वादिकः ॥ ६. ४. ६८ ॥ - बहुस्वरं पूर्वपदं यस्य तस्मान्नाम्नः प्रथमान्तादस्येति षष्ठयर्थे इकः प्रत्ययो भवति यत्तत्प्रथमान्तं तच्चेद्वत्तोपपाठोऽनुयोगे भवति । एकादशान्यान्यपपाठरूपाण्यनुयोगेऽस्य वृत्तानि एकादशान्यिकः, एकादशान्यिका स्त्री,