________________
[ पाद. ३. सू. ११५-११९]
श्रीसिद्धहेमचन्द्र शब्दानुशासने षष्ठोऽध्यायः [ १३१ यस्मिन्स काल उमाव्यासस्तत्र देयमृणमुमाव्यासकम् । ऐषमोऽस्मिन्संवत्सरे देयमृणमैषमकम् ।११४॥
न्या० स० कला०—इकणादेरिति आदिशब्दात् 'ऐषमोह्यःश्वसो वा' ६-३-१९ इति त्यच्तनटौ ऐषम इति सामान्यविशेषभावेन भूयः सप्तमी, एके तु विशेषाभावं मन्वानाः सप्तम्यर्थादपि प्रत्यय इति च व्याचख्युः ।
ग्रीष्मावरसमादकञ् ।। ६. ३. ११५ ।।
ग्रीष्म अवरसमा इत्येताभ्यां कालवाचिभ्यां सप्तम्यन्ताभ्यां देये ऋणेऽकञ् प्रत्ययो भवति, अणिकणोरपवादः बकारो वृद्ध्यर्थः । ग्रीष्मे देयमृणं ग्रैष्मकम्, अवरा, समा, अवरसमा, समाया, अवरत्वमित्यवरसमं वा । तत्रावरसमकम् । अपरंसमादपीच्छन्त्येके । आपरसमकम् ।११५।
संवत्सराग्रहायण्या इकण् च ॥। ६. ३. ११६ ।।
संवत्वर आग्रहायणी इत्येताभ्यां सप्तम्यन्ताभ्यां देये ऋणे इकण् चकारादकश्च प्रत्ययो भवतः, अणिकणोरपवादः । संवत्सराद्धि फले पर्वाणि च ऋण प्राप्नोति । संबत्सरे देयमृणं फलं पर्ब वा सांवत्सरिकम्, सांवत्सरकम्, आग्रहायणिकम्, आग्रहायणकम्, वेश्यकृत्वा इकण् चेति विधानं ' संवत्सरात्फलपर्वणोः ' ( ६-३ - ८९ ) इत्यण्बाधनार्थम् ११६॥
न्या० स० संव० - वेत्यकृत्वेति नन्त्राग्रहायण्या वेत्यपि कृते साध्यसिद्धिर्भविष्यतीत्याशङ्का ।
साधुपुष्यत्पच्यमाने ॥ ६. ३. ११७ ॥
1
कालादिति वर्तते । तत्रेति सप्तम्यन्तात्काल विशेषवाचिनः साधौ पुष्यति पच्यमाने चार्थे यथाविहितं प्रत्यया भवन्ति । हेमन्ते साधु हैमनमनुलेपनम् । हैमन्तं हैमन्तिकम् । वसन्ते पुष्यन्ति वासन्त्यः कुन्दलताः, ग्रैष्म्य: पाटला, शरदि पच्यन्ते शारदाः शालयः, शैशिरा मुद्गाः । ११७ |
उप्ते ।। ६. ३. ११८ ।।
तत्रेति सप्तम्यन्तात् कालवाचिन उप्तेऽर्थे यथाविहितं प्रत्ययो भवति । शरद्युप्ता: शारदा यवाः । हेमन्ते हैमनाः, ग्रैष्माः, नैदाधाः योगविभाग उत्तरार्थः ।११८।
आश्वयुज्या अकञ् ।। ६. ३. ११९ ।।
आश्वयुजीशब्दात्सप्तम्यन्तादुप्तेऽर्थेऽकञ् प्रत्ययो भवति, इकणोऽपवादः । अश्विनीभिश्चन्द्रयुक्ताभिर्युक्ता या पौर्णमासी सा आश्वयुजी, अश्विनीपर्यायोऽ.