________________
। पाद. ३. सू. १०६-१०९ ]
फल्गुन्याष्टः ।। ६. ३. १०६ ॥
फल्गुनीशब्दात्सप्तम्यन्ताज्जातेऽर्थे टः प्रत्ययो भवति नाम्नि, भाणोऽपवादः । फल्गुन्योर्जातः फल्गुनः, फल्गुनी स्त्री । अणमपीच्छन्त्येके । फाल्गुनः, टकारो ङयर्थः ।१०६।
श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [ १२९
बहुलानुराधापुष्यार्थपुनर्वसुहस्तविशाखास्वातेर्लुप् ।। ६. ३. १०७॥
बहुलादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे लुप् भवति नाम्नि । बहुलाः कृत्तिकाः ताभिश्चन्द्रयुक्ताभिर्युक्तः कालो बहुलाः तासु जातो बहुल: । अत्राणो लुपि ' ङयादेर्गौणस्य ' - ( २ - ४ - ९४ ) इत्यादिनापोऽपि लुप्, एवमनुराधासु अनुराधः । ' घञ्युपसर्गस्य बहुलम् ' ( ३-२-८६ ) इति दीर्घत्वे अनूराधाः, तासु अनूराध:, पुष्यार्थ- पुष्ये पुष्यः, तिष्यः, सिध्यः । पुनर्वसौ पुनर्वसुः, हस्ते हस्तः, विशाखायां विशाखः, स्वाती स्वातिः ॥ १०७ ॥
न्या० स० बहुल०-पुनर्वसाविति अत्र प्रागेव एकैत्र तारा विवक्षितेति 'पुष्यार्थात् ' ३ - १ - १२९ इति सूत्रं विनाऽपि सिद्धं पुंलिङ्गश्चायम् ।
चित्रा रेवती रोहिण्याः स्त्रियाम् ।। ६. ३. १०८ ॥
चित्रादिभ्यः सप्तम्यन्तेभ्यः परस्य भाणो जातेऽर्थे स्त्रियां लुप् भवति नाम्नि | चित्रायां जाता चित्रा माणविका, रेवत्यां रेवती, रोहिण्यां रोहिणी, स्त्रियामिति किम् ? चैत्रः रैवतः रोहिणः पुंस्येषां विकल्प इत्येके । तन्म चित्र: रेवतः रोहिण इत्यपि भवति । १०८ ।
बहुलमन्येभ्यः ।। ६. ३. १०९ ॥
श्रविष्ठादिभ्यो येऽन्ये नक्षत्रशब्दास्तेभ्यः सप्तम्यन्तेभ्यः परस्य भागो जातेऽर्थे बहुलं लुप् भवति नाम्नि | अभिजिति जातोऽभिजित्, अभिजितः, अश्वयुजि जात: अश्वयुक्, आश्वयुजः, शतभिषजि शतभिषक् शातभिषजः, शतभिषः, ' वा जाते द्वि:' ( ६-२-१३७ ) इति विकल्पनाणो डिस्वादन्त्यस्वरादिलोपः । कृत्तिकासु कृत्तिकः, कार्तिकः, मृगशिरसि मृगशिराः मार्गशीर्षः, एषु वा लोपः । कचिन्नित्यम् । अश्विनीषु जातः अश्विनः, अश्विनी, राधः, राधा, श्रवणः, श्रवणा, उत्तरः, उत्तरा । कचिन्न भवति, मघासु माघः, अश्वत्थे अश्वत्थः, प्रोष्ठपदासु प्रोष्ठपादः, भद्रपादः, प्रोष्ठभद्राज्जाते' ( ७-४ -१३ ) इत्युत्तरपदवृद्धिः । १०९ ।
·