________________
। पाद. ३. सू. ५५] श्रीसिद्धहेमचन्द्रशब्दानुशासने पष्ठोध्यायः [११५ ग्रहणम् । एवं च गोयवाग्वोः पत्तिवजिते च मनुष्ये मनुष्यस्थे च हसितादौ साल्वक: अन्यत्र साल्व इति स्थितम्, अयं च विभागः सल्वशब्दस्यादोरपि विज्ञेयः ।५४।
न्या० स० साल्वा०-नियमार्थमिति नार साल्वशब्दात् यद्यकञ् भवति, तदा अपत्तावेव न पत्तौ, मनुष्यस्थे चेति ननु गोयवाग्वपत्तावित्युच्यमाने मनुष्यस्थः कथं न लभ्यते, नहि मनुष्यस्थः प्रहासादिौयवागूरपत्तिर्वा भवति, न च पत्तेरन्यमात्रमपत्ति, अपि तु मनुष्योऽन्यथा व्रीहय इत्यत्राप्यक प्राप्नोति, तथा च गोयवागूग्रहणमनर्थकं स्यात्तत्राप्यपत्तावित्येव सिद्धेः? उच्यते, अपत्ति ग्रहणं 'कच्छादेर्नूनृस्थे' ६-३-५५ इत्यकत्रि सिद्धे पत्तेावृत्त्यर्थं क्रियते न तु विध्यर्थ, तेन यथा अपत्तो मनुष्ये भवति तथा मनुष्यस्थेऽपि, ततः प्रत्ययस्याव्यावर्तितत्वात् । सल्यशब्दस्येति उपलक्षणत्वादेकदेशविकृतस्यानन्यत्वाद् वा ।
कच्छादे नृस्थे ।। ६. ३. ५५ ॥
कच्छादिभ्यो देशवाचिभ्यो नरि मनुष्ये नृस्थे मनुष्यस्वे च शेषेऽर्थेऽकञ् प्रत्ययो भवति, अणोऽपवादः । काच्छको मनुष्यः, काच्छकमस्य हसितम्, स्मितं जल्पितम् ईक्षितम्, काच्छिका चूला, सैन्धवको मनुष्यः, सैन्धवकमस्य हसितम्, सैन्धविका चूला । ननस्थ इति किम् ? काच्छो गौः, सैन्धवं लवणम्, कच्छ, सिन्धु, वर्ण, मधुमत्, कम्बोज, साल्व, कुरु, अनुषण्ड, अनूषण्ड, कश्मीर, विजापक, द्वीप, अनूप, अजवाह, कुलूत, रङ्गु, (कु) गन्धार, साल्वेय, यौधेय, सस्थाल, सिन्ध्वन्त इति कच्छादिः । कच्छादयो ये बहुविषया राष्ट्रशब्दास्तेभ्यो 'बहुविषयेभ्यः' (६-३-४४) इत्यकञ् सिद्ध एव । उत्तरेण स्वणा बाधा माभूदिति पुनविधीयते । वर्णसिन्धुभ्याम् ‘उवर्णादिकण्' (६-३-३८) इतीकणि तदपवादे कच्छाधणि, कुरो: 'कुरुयुगन्धराद्वा' (६-३-५२) इति विकल्पे, विजापकस्य कोपान्त्यलक्षणेऽणि, कच्छस्यौत्सर्गिकाणि प्राप्तेऽकविधिःः, अपरे कच्छमपि बहुविषयं राष्ट्रशब्दमाहुस्तदा पूर्वोक्तमेव पाठफलम् ।५५।
न्या० स० कच्छा० -अणोपवाद इति 'कोपान्त्याच्चाण' ६-३-५६ इति सामान्येन प्राप्तस्य, अथ कच्छादिगणो विव्रियते-'तुदिमदि' १२४ ( उणादि ) इति कच्छ:, 'स्यन्दि सृजिभ्याम् ' ७१७ ( उणादि) इति सिन्धुः ।
'अजिस्था' ७६० ( उणादि) इति वर्णः, मधु अस्यास्ति मधुमत् ,
'सलेर्णिद्वा' ५१० ( उणादि ) साल्व: ‘कृगृ' ४४१ ( उणादि ) इति कुरुः, अनुरूपा षण्डा यत्र अनुषण्डः, बाहुलकादीर्घत्वे अनूषण्डः, 'कशेर्मोऽन्तश्च ' ४२० ( उणादि) कश्मीराः, विजापयन्ति विजापकाः, द्विधा गता अनुगता आपो यत्र द्वीपः, अनूपः, अजान्वहति अजवाहः,