SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्री सिद्ध हेमचन्द्र शब्दानुशासने षष्ठोध्यायः [ पाद. ३. सू. ३-७ ] [ १०१ इति शफर:, कु ईषन शफरो मत्स्यो यस्याः 'अल्पे ' ३-२-१३६ कादेशे काशफरी, खदिरा अत्र सन्ति, ' तदत्रास्ति ६-२-७० खादिरी । पूर्वं च तत् नगरं च पूर्वनगरं, पूर्वति 'निघृषि' ५११ ( उणादि ) इति वा पूर्वः नश्यन्ति अत्र चौरा इति नगरी, पूर्वा चासौ नगरी च पूर्वनगरी पूर्व नगिरीति 'नाम्युपान्त्य ६०९ ( उणादि ) इति प्रसाधि । , पूर्यते 'गुषृदुर्बि' ९४३ ( उणादि ) इति पुर । वन्यते ' वर्षादय: '५-३-२९ इति वनं, गिरन्ति श्वापदा अत्र 'नाम्युपान्त्य' ६०९ ( उणादि ) इति गिरिः, वनप्रधानो गिरिः वनगिरिः, न विद्यते गिरिर्यस्य नगिरिः, न गृणाति या नगिरिः, पूर्वश्चासौ नगिरिश्च । , पवमानं मत्रभानं भवन्तं वा प्रयुक्ते पात्रयति मावयति पाषा, मावा । मलमानं प्रयुङ्क्ते मालयति 'प्र' ५१४ ( उणादि ) इति माल्वा, दृणाति 'प्रह्व' ५१४ ( उणादि ) इति दाव, सां लक्ष्मीमितः प्राप्तः सेतः को ब्रह्मा यस्यां सेतको गौरादित्वात् ङ्यां, सेतुः सेतुबन्धोऽत्रास्ति ' तदत्रास्ति' ६-२-७० सैतवो, इति नद्यादिः । , राष्ट्रादियः ॥ ६. ३.३॥ राष्ट्रशब्दात्प्राग्जितीये शेषेऽर्थे इयः प्रत्ययो भवति । राष्ट्रे क्रीतः कुशलो जातो भवो वा राष्ट्रियः । शेष इत्येव ? राष्ट्रस्यापत्यं राष्ट्रिः | ३ | दूरादेत्यः ।। ६. ३. ४ ।। दूरशब्दात् शेषेऽर्थे एत्यः प्रत्ययो भवति । दूरे भवो दूरेत्यः |४| उत्तरादाहञ् ।। ६. ३.५ ॥ उत्तरशब्दाच्छेषेऽर्थे आहञ् प्रत्ययो भवति । औत्तराहः, अत्तराहा स्त्री, औत्तराहीति उत्तराहिशब्दाद्भवार्थेऽणि 1५॥ न्या० स० उत्तरा० - उत्तराहिशब्दादिति उत्तरा दिग्देशो वा रमणीयः 'वोत्तरात् ' ७-२-१२१ इत्याहिः प्रत्यय:, कालार्थत्वे त्वाहिप्रत्ययान्तात् ' सायंचिरं' ६-३-८८ इति तनडेव न त्वण् । पारावारादीनः ॥ ६. ३.६ ॥ पारावारशब्दाच्छेषेऽर्थे ईनः प्रत्ययो भवति । अवारस्समुद्रस्तस्य पारम् राजदन्तादित्वात्पारावारस्तत्र भवो जातो वा पारावारीणः | ६ | व्यस्तव्यत्यस्तात् ।। ६. ३. ७ ।। पारावारशब्दाव्यस्ताद्विपर्यस्ताच्च ईनः प्रत्ययो भवति । पारीणः, अवारीणः, अवारपारीणः ॥७॥ न्या० स० व्यस्त०–अवारपारीण इति राजदन्तादित्वाद्विकल्पेन पूर्वनिगतो न ।
SR No.034257
Book TitleSiddh Hemhandranushasanam Part 03
Original Sutra AuthorHemchandracharya
AuthorUdaysuri, Vajrasenvijay, Ratnasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages570
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy