________________
८८२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. २ सू० ७८-८३ । शर्कराया इकणीयाण च ॥ ६. २. ७८ ॥
शर्कराशब्दादिकण् ईय, अण् चकारात् इक, कण् इत्येते प्रत्यया भवन्ति चातुरथिका देशे नाम्नि । शर्करा अस्मिन्देशे सन्ति शार्करिकः, शर्करीयः, शार्करः, शर्करिकः, शार्करकः, । शिरीषाः शर्करा इति प्रत्यययोगमन्तरेणापि देशे वृत्तिरिति पूर्ववत्प्रत्ययो न भवति ।७८।
न्या. स. शर्कराया०-शिरीषाः शर्करा इति नन्वेवंविधान्यपि देशनाभानि दृश्यन्ते तदर्थ प्रत्ययलुप् वक्तव्येत्याशङ्का । रोमादेः ॥ ६. २. ७९ ॥
अश्मादिभ्यो रः प्रत्ययो भवति चातुरथिको देशे नाम्नि । अश्मरः, . यूषरः, अश्मन्, यूष, ऊष, यूथ, मोन, गुद, दर्भ, कूट, गुहा, वृन्द, नग, क.ण्ड, गह्व, कन्द, पामन् इत्यश्मादिः ।७९। प्रेक्षादेरिन ।। ६. २. ८० ॥
प्रेक्षादिभ्य इन् प्रत्ययो भवति चातुरथिको देशे नाम्नि। प्रेक्षी, फलकी । प्रेक्षा, फलका, बन्धुका, ध्रुवका, धुवका, क्षिपका, कूप, पुक, धुक,. इक्कट, कङ्कट, संकट, मह, गर्त, न्यग्रोध, परिवाप, यवाष, हिरण्य इति प्रेक्षादिः ।८० तृणादेः सल ॥ ६. २. ८१ ॥
तृणादिभ्यश्चातुरथिकः सल प्रत्ययो भवति देशे नाम्नि । तृणसा, नदसा। तृण, नद, जन, पर्ण, वर्ण, अर्णस्, वरण, विल, तुस, वन, पुल इति तृणादिः ।८१॥ काशादेरिलः ॥ ६. २. ८२ ॥
काशादिभ्यश्चातुरथिक इलः प्रत्ययो भवति देशे नाम्नि । काशिलम्, वाशिलम् । काश, वाश, अश्वत्थ, पलाश, पीयूक्षा, पाश, विश, तृण, नल, वन, नलवन, कर्दम, कर्पूर वर्वर, वर्गुल, शीपाल, कण्टक, गुहा, कपित्थ इति काशादिः ।८२॥ अरीहणादेरकण ॥ ६. २. ८३ ॥
अरीहणादिभ्यश्चातुरथिकोऽकण् प्रत्ययो भवति देशे नाम्नि । आरोहणक, खाण्डवकम् । अरीहण, खण्डु, खण्डू, द्रुघण, किरण, खदिर, भगल, भलन्दन,