________________
पाद - ४, सूत्र- ५८-६० ] श्रीसिद्धहेमचन्द्र शब्दानुशासने तृतीयोऽध्यायः
णि श्रिदु स्रु कमः कर्तरि ङः ॥ ३. ४. ५८ ॥
ण्यन्तात् श्रयादिभ्यश्च कर्तरि अद्यतन्यां ङः प्रत्ययो भवति । णि-प्रचीकरत्, अचू चुरत्, औजढत्, अचीकमत । कर्मकर्तापि कर्तेव । अचीकरत कटः स्वयमेव, श्रि-अशिश्रियत्, दु-अदुद्रुवत्, स्र ं गतौ प्रसुत्र वत्, कम् - अचकमत ।
कर्तरीति किम् ? अकारयिषातां कटौ देवदत्तेन । कमिग्रहणम् 'प्रशवि ते वा' ( ३-४-४ ) इति यदा णिङ् नास्ति तदार्थवत् । ङकारो ङित्कार्यार्थः ॥ ५८ ॥
[ ६३
न्या० स० - णिश्रि० - प्रचीकरदिति- ननु 'स्वरस्य परे' ७-४-११० इति ह्रस्वत्वस्य स्थानित्वे लघोऽभावात् सन्वद्भावो न प्राप्नोति ? न एतत्सूत्रसामर्थ्याद् भवति, यत ओगेॠदनुबन्धकरणव्याख्यानात् पूर्वं ह्रस्वत्वे कृते स्थानिवद्भावो न प्राग्विधावित्यस्य प्राचि पूर्वस्मिन् काले विधिः प्राग्विधिरिति व्याख्यानात् वा ।
औजढदिति - अत्र परे द्वित्वे 'हो धुट्पदान्ते' २-१-८२ इत्यस्याऽसत्त्वे तदाश्रितत्वात् 'अधश्चतुर्थात्तथो०' २-१-७९ इत्यस्याप्यऽसत्त्वे णो यत् कृतम् इति न्यायाasकारस्य स्थानित्वे 'नाम्नोद्वितीयात्' ४-१-७ इत्यनेन हतेति द्विर्वचनं तत्र यदा परे द्वित्वे 'हो धुट्पदान्ते' २-१-८२ इत्यस्य शास्त्रस्यासिद्धिराश्रीयते तदा पुनरपि 'हो छुट् पदान्ते' २१-८२ इत्यादि प्रक्रिया क्रियते ततो 'ढस्तड्ढे' १-३-४३ इति ढलोपे पूर्वजकाराकारस्य दीर्घत्वे 'ह्रस्वः' ४-१-३९ इत्यनेन ह्रस्वः ।
अकारयिषातामिति - क्रियेते कटौ देवदत्तेन, तो देवदत्तेन क्रियमाणौ यज्ञदत्तेन प्रयुज्येते स्म यद्वा करोति कटौ देवदत्तः, स एवं विवक्षते नाहं करोमि, अपि तु क्रियेते कटौ स्वयमेव, तो क्रियमाणी कटौ यज्ञदत्तेन प्रायुक्षाताम् ।
दूधेश्वेर्वा । ३. ४. ५१ ॥
,
वेश्विभ्यां कर्तर्यद्यतन्यां ङः प्रत्ययो वा भवति । अदधत् अधात्, अधासीत्, अशिश्वियत् अश्वयीत् श्रश्वत् । कर्तरीत्येव ? अधिषाताम् गावौ वत्सेन ।। ५९ ।। शास्त्यस्· वक्ति-ख्यातेरड् । ३. ४. ६० ॥
"
एभ्यो धातुभ्यः कर्तयद्यतन्यामङ् प्रत्ययो भवति । शासूक्-अशिषत् व्यत्यशिषत, अन्वशिषत स्वयमेव । असूच्- आस्थत्, अपास्थत्, वचंक् ब्रग्फ् वा, श्रवोचत् प्रवोचत, ख्यांक चक्षिक् वा आख्यत्, प्राख्यत ।
कर्तरीत्येव ? प्रशासिषाताम् शिष्यौ गुरुणा । तिनिर्देशो यङ्लुबन्तनिवृत्त्यर्थः । प्रशाशासीत्, अवावाचीत्, अचाख्यासीत् । श्रसू इत्यूकारः किम् ? असक् भुवि, असी गत्यादी - आभ्यां माभूत् अभूत् श्रासीत् । अस्यतेः पुष्यादित्वादङि सिद्धे वचनम् श्रात्मनेपदार्थम्, शास्तेरात्मनेपदे नेच्छन्त्येके, तन्मते व्यत्यशासिष्ट ।। ६० ।।
न्या० स० - शास्त्य० - वक्तिख्यातीत्युक्ते चक्षिक गोरपि ग्रहणं यतः 'इकिस्तिव्' ५ -३ - १३८ इति इकि विषये वचः ख्यादेशे पश्चात्तिव उत्पन्नः । श्रात्मनेपदार्थमितितर्हि आत्मनेपदपरस्मैपदयोरनेनैव सिध्यति किं पुष्यादिपाठेन ? सत्यं, अस्य पुष्यादिपाठो