________________
पाद-४, सूत्र-५१-५४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः।
[६१
विहितो गृह्यते, अत्र तिव्वदित्युक्तं । ति च भावेकर्मणि न भवति, ग्रन्थकृता च तिव्वद्भावाच्छित्वे द्वित्वमित्वं चेत्येवोक्तम् ।
वेत्तेः कित् ॥ ३. ४.५१ ॥
"विदक ज्ञाने' इत्यतो धातोः परस्याः परोक्षायाः स्थाने प्रामादेशो वा भवति, स च कित प्रामन्ताच्च कृभ्वस्तयोऽन प्रयुज्यन्ते । विदांचकार, विदांबभव, विदामास । कित्त द गुणो न भवति । पक्षे, विवेद, वेत्तेरविदिति कृते इन्ध्यसंयोगात्परोक्षा किद्वदित्यामः स्थानिवद्भावेन कित्त्वे सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम् , तेन परोक्षावद्भावेन हि कित्त्वद्विर्वचनादिकं न भवति । तिनिर्देश आदादिकपरिग्रहार्थः॥५१॥
न्या० स० वेत्तेः कित-कित्त्वद्विवचनादिकं न भवतीति-तेन जुहवांचक्रे कित्त्वाऽभावाद्गुणः । विदांचकार अपरोक्षत्वात् द्विवचनाभावः, आदि शब्दाद्दयांचक्रे इत्यादी एत्वाभावः सिद्धः । आदादिकपरिग्रहार्थ इति-अन्यथा विद इति सामान्योक्तौ चतुर्णामऽदाद्यनदाद्योरित्यतोऽदादिवजितानां त्रयाणां वा ग्रहः स्यात् , यङ लुब्निवृत्त्यर्थश्च तिवनिर्देशः, तेन यङ लुपि वेवेदांचकारेति सिद्धम् , 'धातोरनेकस्वरात्' ३-४-४६ इत्यामि नाऽनेन विकल्पः।
पञ्चम्याः कृग ॥ ३. ४. ५२ ॥
वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा भवति, प्रामन्ताच्च परः पञ्चम्यन्तः कृगनु प्रयुज्यते । विदांकरोतु-वेत्तु , विदांकुरु-विद्धि, विदाकरवाणि-वेदानि । कृग्नहणं भ्वस्तिव्युदासार्थम् ॥ ५२॥
न्या० स०-पञ्चम्या०-भ्वस्तिसंबद्ध एव कृगऽनूद्यते, तेन कृग्ट् इत्यस्य न ग्रहः । सिजद्यतन्याम् ॥ ३. ४. ५३ ॥
धातोरद्यतन्यां परभूतायां सिच प्रत्ययो भवति, वेति निवृत्तम् । अनैषीत् , अपाक्षीत , अकृषाताम् कटौ चैत्रेण । इकारचकारौ विशेषणाथो । ५३ ॥
न्यास-सिजद्यः-'चजः कगम्' २-१-८६ इति कृते कित्त्वाशङ्का स्यात् । वेति निवृत्तमिति-आनिवृत्तौ तत्संबन्द्धत्वात् , विशेषणार्थाविति-अन्यथा 'हनः सिज्' ४-३-३८ इत्यादौ सिरिति कृते वर्तमाना-'सि'-प्रत्यये स इति च कृते सकारादिमात्रे प्रसङ्गः स्यात् ।
स्पृश-मृश-कृष-तृप-दृपो वा ।। ३. ४. ५४ ॥
स्पृशादिभ्यो धातुभ्योऽद्यतन्यां सिज्वा भवति । अस्प्राक्षीत , अस्पाीत, अस्पृक्षव; अम्राक्षीव , अमाीत , अमृक्षत; अकाक्षीद , अकार्षीत , अकृक्षत; अत्राप्सीत् , अतार्सीत्, अतृपत् ; अद्राप्सीत् , प्रदार्सीत् , अदृपत् । तृपडपोः पुष्यादित्वाङि शेषाणां तु सकि प्राप्ते वचनम् ।। ५४॥