________________
पाद-४, सूत्र-४५-४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[५९
स्वरादेरिति-येन नाप्राप्त इति न्यायेनान्तलोपस्य बाधकत्वेन आकारविधानात् अकारस्यैव प्रथमं 'त्रन्त्यस्वरादेः' ७-४-४३ इत्यन्त्यलोपो न भवति ।।
श्वेताश्वाश्वतर-गालोडिताऽऽहरकस्याश्वतरेतक-लुक् ॥३. ४. ४५॥
श्वेताश्व, अश्वतर, गालोडित, प्राह्वरक इत्येतेषां णिच्संनियोगे यथासंख्यमश्वतरेतक इत्येतेषां लुग्भवति । श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिकामतीति वा श्वेतयति, एवमश्वयति, गालोडितमाचष्टे करोति वा गालोडयति, एवमाह्वरयति । लुगर्थं वचनं णिच् तु सर्वत्र पूर्वेण सिद्ध एव ॥ ४५ ॥
न्या० स० श्वेताश्व०-श्वेतयतीत्याष्वनेन सस्वराणामेवाश्वादीनां लुक् , न तु त्रन्त्यस्वरादेरित्यकारलोपे सति विशेषविधानात् अश्वादिलोपात्पश्चादपि त्रन्त्यस्वरादेरित्यन्त्यस्वरादेर्न लुक् , 'सकृत् बाधित' इति न्यायात् , श्वेतयीत्यादिषु अन्त्यस्वरादेर्लोपेऽपि न किंचिदं विनश्यति । गालोडयतीत्यत्र तु अनेन इतलोपे 'अन्त्यस्वरादेः' ७-४-४३ इत्योडलोपे सति गालयतीति स्यात्, 'लोडङ उन्मादे', लोडनं क्लीबे क्तः गोर्लोडितम , अथवा गुप्तं लोडितं क्षोरस्वामिना पृषोदरादि: । नन्वतिहस्तयतीतिवत् श्वेतयतीत्यत्राप्यतिशब्दप्रयोगः प्राप्नोति ? न, अत्र शब्दशक्तिस्वाभाव्यादतिशब्दमन्तरेणापि तदर्थप्रतीतिः । धातोरनेकस्वरादाम् परोक्षायाः कृभ्वस्ति चानु तदन्तम्
॥३. ४.४६ ॥ अनेकस्वराद्धातो: परस्याः परोक्षायाः स्थाने आमादेशो भवति, प्रामन्ताच्च परे कृभ्वस्तयो धातवः परोक्षान्ता अनु पश्चादनन्तरं प्रयुज्यन्ते । चकासांचकार, चकासांबभूव, चकासामास, चुलुम्पांचकार, चुलुम्पांबभूव, चुलुम्पामास, लोल्यांचक्के, लोलयांबभूव, लोलयामास । अस्तेमून भवति विधानबलात् । अनेकस्वरादिति किम् ? पपाच । कश्चित्तु प्रत्ययान्तादेकस्वरादपोच्छति,-गौरिवाचचार गवांचकार, गवांबभूव, गवामास, एवं स्वांचकारेत्यादि । अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् , तेन चकारचकासाम् ईहांदेवदत्तश्चक्के इत्यादि न भवति । उपसर्गस्य तु क्रियाविशेषकत्वात व्यवधायकत्वं नास्ति । तेन 'उक्षां प्रचकुर्नगरस्य मार्गान्' इत्यादि भवत्येव ॥४६॥
____ न्या० स० धातोर०-धातुग्रहणाभावे उपसर्गपूर्वाददेरपि स्यात् । लोल्यांचने इति-'आम: कृगः' ३-३-७५ इति नियमदामः परात् कृग एवात्मनेपदं न भ्वस्तिभ्याम् । पपाचेति-द्विर्वचने कृते त्वनेकस्वरत्वेऽपि संनिपातेति न्यायान्न भवति, विहितविशेषणाद् वा, यद्यनेकस्वराद् विहितो भवति । उपसर्गस्य त्विति-ननु काद्यपि क्रियाया विशेषकं भवतीति तस्याप्यव्यवधायकत्वं प्राप्नोति ? नैवं, क्रियाया एव विशेषकमित्यवधारणस्य विवक्षितत्वात् , कादि च यथा क्रियाया विशेषकं तथा द्रव्यस्यापीति, तथा तं पातयां प्रथममासेति कथंचित्समर्थ्यते, प्रथम मित्यस्य क्रियाविशेषणत्वात् । प्रभ्रंशयां यो नहुषं चकारेति त्वतिदुष्टम् ।