________________
पाद-४, सूत्र-२० ]
श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः
[ ४९
प्रयोक्तृव्यापारे णिग् ॥ ३. ४. २० ॥
कर्तारं यः प्रयुङ्क्ते स प्रयोक्ता, तव्यापारेऽभिधेये धातोणिग् प्रत्ययो वा भवति । व्यापारश्च प्रेषणाध्येषण-निमित्त-भावाख्यानाभिनय-ज्ञानप्राप्तिभेदैरनेकधा भवति । तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम् , सत्कारपूर्वकस्त्वध्यषणम् ।
कर्वन्तं प्रयङक्ते कारयति, पचन्तं प्रयङक्ते पाचयति-अत्र प्रेषणेनाध्येषणेन वा यथासंभवं प्रयोक्तृत्वम् , वसन्तं प्रयुङ्क्ते वासयति भिक्षा, कारीषाग्निरध्यापयति-पत्र निमित्तभावेन, राजानमागच्छन्तं प्रयुङ्क्ते राजानमागमयति, मृगान् रमयति, रात्रि विवासयति कथकः,-अत्राख्यानेन, पाख्यानेन हि बुद्धचारूढा राजादयः प्रयुक्ताः प्रतीयन्ते, कंसं घ्नन्तं प्रयुङ्क्ते कंसं घातयति, बलि बन्धयति नटः,-अत्राभिनयेन । पुष्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम् , मघाभिर्योजयति गणकः-अत्र कालज्ञानेन, उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति, रैवतकात प्रस्थितः शत्रुञ्जये सूर्य पातयति, अत्र प्राप्त्या। ननु च कर्तापि करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिग प्राप्नोति? नवम्, प्रयोक्तृग्रहणसामति, तथा क्रियां कुर्वन्नेव-काभिधीयते, तेन तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मा भवानित्यत्र णिग्न भवति, पञ्चम्या बाधितत्वाद्वा । वाधिकार आ बहुलवचनात् पक्षे वाक्यार्थः ।। २० ॥
. न्या० स० प्रयोक्तृव्या०:-मगान् रमयतीति-रममाणान् मृगान् कथयन् तेषां प्रयोजको भवति । कथनेन यदारण्यस्थो रममाणान् मृगान् प्रतिपाद्यमाचष्टे एतस्मिन्नवकाश एव मृगा रमन्ते इति तदास्य प्रतिपाद्यदर्शनार्थी प्रवृत्तिर्भवति, तस्यां च णिग् वक्तव्यः । बुद्धचारूढा इति-बुद्धिषु श्रोतृणां चित्तेषु आरूढाः सत्तामापन्नाः प्रयुक्ताः प्रवर्तिताः प्रतीयन्ते । राजादीनां हि उभयत्र भावो बहिरन्तश्च । तत्राख्यात्रा बहिर्भावस्य कर्तुमशक्यत्वेऽपि अन्तर्भावस्य सुशकत्वाद् बहिःप्रयोगाभावेऽप्यन्तःप्रयोगात्प्रयोक्तृत्वमिति । कसं घातयतीति-अयं नट: कौशलात्तथा सरसमभिनयति यथा कंसवधाय बलिबन्धनाय चायमेव नारायणं प्रयुङक्ते इति परेषां प्रतिपत्तिर्भवतीति ।
___माहिष्मत्यामिति-महिषा अत्र सन्ति 'नडकुमुद' ६-२-७४ इति डिति मतौ अन्त्यलोपे 'धुटस्तृतीय' २-१-७६ इति डत्वं प्राप्तं 9 असिद्धं बहिरङ्गम् * इत्यनेन व्युदस्यते, न च 'स्वरस्य' ७-४-११० इति स्थानित्वेऽकारेण व्यवधानमिति वाच्यं, 'न सन्धि' ७-४-१११ इत्यस्य असविधावस्थानात् । महिष्मति भवा 'भवे' ६-३-१२३ (इति) अण। रैवतकादिति-राया द्रव्येण वन्यन्ते स्म क्ते रेखङ रेवत इति 'पूतपित्त' २०४ ( उणादि ) निपातो वा रैवता वृक्षास्ते सन्त्यत्र 'अरीहणादेरकण्' ६-२-८३ । ननु च कर्तापि करणादीनामिति-अयमर्थः,-कट करोतीत्यादौ मुख्यकर्तृव्यापारेऽपि णिग् प्राप्नोति, अत्रापि प्रयोक्तृव्यापारस्य विद्यमानत्वात् । तथाहि कटं करोतीति कोऽर्थः ? जायमानं जनयतीत्यर्थः, इत्याशङ्कायामाह प्रयोक्तृग्रहणसामर्थ्यादिति-करिं यः प्रयुङ क्ते स हि प्रयोक्ता, यदि च व्यापारमात्रे णिग् स्यात्तदा व्यापारे णिगित्येवोच्येत । तेन तूष्णीमासोने इति-प्रयोज्ये प्रच्छ्ये तूष्णीमासीने प्रयोजकः प्रच्छिक्रियायाः कारयिताह मां पृच्छतु भवानिति । पञ्चभ्या बाधिताद्वेति-अथवा सव्यापारेऽपि प्रयोज्ये परत्वात् 'प्रैषानुज्ञावसरे' ५-४-२६ इति विहितया