________________
सूत्र ८७४-८८५ ]
स्वोपज्ञोणादिगणसूत्र विवरणम्
[ ४६३
सर्तेरड् ॥ ८७८ ॥
सृ गतौ, इत्यस्मादप्रत्ययो भवति । सरड्वृक्ष विशेष:, मेघः, उष्ट्रजातिश्च । ८७८ |
ईडेरविड् ह्रस्वश्च ॥ ८७६॥
ईडिक् स्तुती, इत्यस्माद् अविप्रत्ययो भवति, ह्रस्वश्चास्य भवति । इडविट्विश्रवाः ।। ८७९ ।।
विपि म्लेच्छ्थ वा ॥ ८८० ॥
म्लेच्छेरीडैश्च क्विपि प्रत्यये वा ह्रस्वो भवति । अत एव वचनात् क्विप् च । म्लेच्छ अव्यक्ते शब्दे, म्लेट् म्लिट्-उभयं म्लेच्छजातिः । इंटू ईट् - स्वामी, मेदिनी
च ।। ८५० ।।
तृपेः कत् ॥ ८८१ ॥
तृपौच् प्रीतो, इत्यस्मात् किदु अत्प्रत्ययो भवति । तृपत्- चन्द्रः समुद्रः, तृणभूमिश्च ।। ८८१ ।।
संश्वद्-वेहत- साक्षादादयः ॥ ८८२ ॥
एते कत्प्रत्ययान्ता निपात्यन्ते । संपूर्वाच्चिनोतडित् समो मकारस्यानुस्वारपूर्वः शकारश्च । संश्चत् अध्वर्यु:, कुहकश्च । अनुस्वारं नेच्छन्त्येके, संश्चत्- कुहकः । विपूर्वाद्धन्तेश्च गुणः, विहन्ति गर्भमिति वेहतु - गर्भघातिनी अप्रजाः, स्त्री, अनड्वांश्च । संपूर्वादीक्षतेः साक्षाभावश्च साक्षात् समक्षमित्यर्थः । आदिग्रहणाद् रेहत्, वियत्, पुरीतदादयोऽपि ।। ८८२ ।।
. पटच्छपदादयोऽनुकरणाः ॥ ८८३ ॥
पटदित्यादयोऽनुकरणशब्दा: कत्प्रत्ययान्ता निपात्यन्ते । पट गतो, पटत् छुपत् संस्पर्शे उकारस्याकारश्च । छपत् । पत्लृ गतौ, पतत् । शृश् हिंसायाम्, शरत् । शल गतौ शत् । खुट काङक्षे, खटत् । दहेः प च, दपत् । डिपेः डिपत् खनतेरश्च, खरत् । खादतेः खादत्, सर्व एते कस्यचिद्विशेषस्य श्रुतिप्रत्यासत्त्याऽनुकरणशब्दाः । अनुकरणमपि हि साध्वेव कर्तव्यम्, न यत्किञ्चित्, यथाऽनक्ष रमिति शिष्टाः स्मरन्ति ॥ ८८३ ॥
दुहि वृहि महि - पृषिभ्यः कतुः ॥ ८८४ ॥
एम्य: किद् अतृः प्रत्ययो भवति । द्रुहौच् जिघांसायाम्, द्रुहन्- ग्रीष्मः, वृह वृद्धी, वृहन - प्रवृद्धः, बृहती छन्दः । मह पूजायाम्, महान् - पूजितः, विस्तीर्णश्च । महान्ती, महान्तः, महती | पृष् सेचने, पृषत्-तन्त्र, जलबिन्दु:, चित्रवर्णजातिः, दध्युपसिक्तमाज्यं च । पृषती मृगी । स्थूलपृषतिमालभेत । ऋकारो ङयाद्यार्थः ।। ८८४ ॥
गमेद्द्वेि च ॥ ८८५ ॥