________________
४५८ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-८३३-८४१
मृजेगुणश्च ॥ ८३३॥
मृजौक् शुद्धौ, इत्यस्माद् ऊः प्रत्ययो भवति, गुणश्चास्य भवति । मजूं :-शुद्धिः, रजकः, नद्यास्तोरं, शिला च । गुण सिद्धे गुणवचनमकारस्य वृद्धिबाघनार्थम् ॥ ८३३ ॥
अजे|ऽन्तश्च ।। ८३४॥
अज क्षेपणे, इत्यस्माद् ऊः प्रत्ययो भवति, जकारश्चान्तो भवति । अज्जूः-जननी ॥ ८३४ ।।
कसि-पद्यादिभ्यो णित् ॥ ८३५ ॥
एभ्यो णिद् ऊः प्रत्ययो भवति । कस गतौ, कासूः-शक्ति मायुधम् , वागविकलः, बुद्धिः, व्याधिः, विकला च वाक् । पदिच् गती, पादूः-पादुका। ऋक् गतो, आरू:-वृक्षविशेषः, कच्छूः, गतिः, पिङ्गलश्च । आदिग्रहणात् कचते:-काचूः । शलतेः-शालूः इत्या. दयोऽपि ॥ ४३५॥
अणेझैऽन्तश्च ॥ ८३६ ॥
अणेर्धातोणिद् ऊः प्रत्ययो भवति, डश्चान्तः। अण शब्दे, आण्डू:-जलभृङ्गारः ।। ८३६॥
अडो ल् च वा ।। ८३७ ॥
अड उद्यमे, इत्यस्माण्णिद् ऊः प्रत्ययो भवति, लश्चान्तादेशो वा भवति । आलू:भृङ्गारः, करकश्च । आडू:-दर्वी, टिट्टिभः, वनस्पतिः, जलाधारभूमिः, पादभेदनं च ।८३७।
नओ लम्बेर्नलुक् च ॥ ८३८॥
नपूर्वात् लबुङ, अवस्र सने, इत्यस्माद् गिद् ऊः प्रत्ययो भवति । नकारस्य च लुक् भवति । अलाबूः-तुम्बी ॥ ८३८ ।। .
कफादीरेले च ॥ ८३६॥
कफपूर्वाद् ईरिक् गति कम्पनयोः, इत्यस्माद् ऊः प्रत्ययो भवति, लकारश्चान्ता. देशो भवति । कफेलू:-श्लेष्मातकः, यवलाजाः, मधुपर्कः, छादिषेयं च तृणम् ॥ ८३९ ।।
ऋतो रत् च ॥ ८४०॥
ऋत् घृणागतिस्पर्धेषु, इत्यस्माद् ऊः प्रत्ययो भवति, रत् चास्यादेशो भवति । रतू:-नदीविशेषः, सत्यवाक् , दूतः, कृमिविशेषश्च ।। ८४० ।।
दृभिचपेः स्वरानोऽन्तश्च ॥ ८४१ ॥
आभ्यां पर ऊः प्रत्ययो भवति, स्वरात् परो नोऽन्तश्च भवति । भैत् ग्रन्थे, इन्भूःसर्पजातिः, वनस्पतिः, वज्रः, ग्रन्थकारः, दर्भणं च । बाहुलकाद् 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' इति नकारस्य लुग् न भवति । चप सान्त्वने, चम्पू:-कथाविशेषः ।।८४१ ।।