________________
४५४ ]
स्वोपज्ञोणादिगण सूत्र विवरणम्
[ सूत्र- ७९८-८०४
आनन्द:, स्वजन:, रङ्गोपजीवी, प्रियंवदश्च । पुषंच् पुष्टी, पोषयित्नुः - भर्ता, मेघः, कोकिलश्च । घुषण् विशब्दने, घोषयित्नुः - कोकिलः, शब्दश्च । गदण् गर्जे, गदयित्नुः - पर्जन्यः, वावदूकः, भ्रमरः कामश्च । मदैच् हर्षे, मदयित्नुः- मदिरा, सुवर्णम् अलंकारश्च । टुनदु समृद्ध, नन्दयित्नुः पुत्रः, आनन्दः प्रमुदितश्च । गड सेचने, गडयित्नुः - बलाहकः । मडु भूषायाम् मण्डयित्नु :- मण्डयिता, कामुकश्च । जनैचि प्रादुर्भावे, जनयित्नुः- पिता । स्तनण् गर्जे, स्तनयित्नुः - मेघः, मेघगर्जितं च ॥ ७९७ ।।
"
कस्यर्तिस्यामिपुक् ॥ ७६८ ॥
आभ्यां किद् इपुः प्रत्ययो भवति । कस गतौ, कसिपुः - अशनम् । ऋक् गतौ, रिपुःशत्रुः ।। ७९८ ।।
कम्यमिभ्यां बुः || ७६६ ॥
आभ्यां प्रत्ययो भवति । कमूङ कान्तौ, कम्बुः शङ्खः । अम गतौ, बुः यम् ।। ७६ ।।
- पानी
अम्बु
अभ्ररमुः || ८०० ||
अभ्र गती, इत्यस्यादमुः प्रत्ययो भवति । अभ्रमुः - देवहस्तिनी ।। ८०० ॥
जि- शुन्धि - दहि-दसि - जनि-मनिभ्यो युः ॥ ८०१ ॥
:
एम्योः प्रत्ययो भवति । यजीं देवपूजादी, यज्युः अग्नि, अध्वर्यु:, यज्वा, शिष्यश्च । शुन्ध शुद्धौ शुन्ध्युः - अग्निः, आदित्यः पवित्रं च । दहं भस्मीकरणे, दह्य अग्निः । दसूच उपक्षये, दस्युः- चौरः । जनैचि प्रादुर्भावे, जन्युः - अपत्यं, पिता, वायुः, प्रादुर्भावः, प्रजापतिः, प्राणी च । मनिच् ज्ञाने, मन्युः - कृपा, क्रोधः- शोकः, ऋतुश्च ॥ ८०१ |
भुजेः कित् ॥ ८०२ ॥
भुजंप् पालनाभ्यवहारयोः, इत्यस्मात् किदु युः प्रत्ययो भवति । भुज्युः - अग्निः, आदित्यः, गरुडः, भोगः, ऋषिश्च ॥ ८०२ ।।
सतेंरवन्यू || ८०३ ॥
सृ गतौ, इत्यस्माद् अयु, अन्यु इति प्रत्ययौ भवतः । सरयु ः- नदी वायुश्च । दीर्घान्तमिममिच्छन्त्येके । सरयूः । श्लिष्टनिर्देशात् तदपि संगृहीतमेव । सरण्युः - मेघः, अश्विनोर्माता, समेघो वायुश्च ।। ८०३ ।।
भू-क्षिपि चरेरन्युक् ॥ ८०४ ॥
एम्य: किदन्युः प्रत्ययो भवति । भू सत्तायाम्, भुवन्युः - ईश्वरः, अग्निश्च । क्षिपत् प्रेरणे, क्षिपण्युः - वायुः, वसन्तः, विद्युत्, अर्थ:, कालश्च । चर भक्षणे च चरण्युः वायुः ।। ८०४ ।।