________________
४५२ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[ सूत्र-७७९-७८८
वहि-महि-गुह्यं धियोऽतुः ॥ ७७६ ॥
एभ्योऽतुः प्रत्ययो भवति । वहीं प्रापणे, वहतुः विवाहः, अनड्वान्, अग्निः, कालश्च । मह पूजायाम्, महतुः अग्निः । गुहौग संवरणे, गूहतुः - भूमिः । एधि वृद्धो, एधतुः - लक्ष्मीः, पुरुषः, अग्निश्च ।। ७७९ ॥
कृ-लाभ्यां कित् ।। ७८० ॥
आभ्यां किद् अतुः प्रत्ययो भवति । डुकुरंग् करणे, ऋतु: - यज्ञः । लांकू आदाने, लतुः - पाशः ॥ ७८० ।।
तर्यतुः ॥ ७८१ ॥
तनूयी विस्तारे, इत्यस्माद् यतुः प्रत्ययो भवति । तन्यतुः - विस्तारः, वायुः, पर्वतः, सूर्यश्च ।। ७८१ ।।
,
जीवेतुः ॥ ७८२ ॥
जीव प्राणधारणे, इत्यस्मादातुः प्रत्ययो भवति । जीवातुः - जीवनम् औषधम्, अन्नम् उदकं द्रव्यं च ॥ ७८२ ॥
1
यमेदु क् ॥ ७८३ ॥
यमू उपरमे, इत्यस्मात् किद्दुः प्रत्ययो भवति । यदु: - क्षत्रियः ।। ७८३ ।।
शीङो धुक् ॥ ७८४ ॥
शीङक् स्वपने, इत्यस्मात् किद् धुः प्रत्ययो भवति । शीधु-मद्यविशेषः ।। ७८४ ॥ धूगो धुन च ॥ ७८५ ॥
धूग्श् कम्पने, इत्यस्माद् धुक् प्रत्ययो भवत्यस्य च धुन् इत्यादेशो भवति । धुन्धुःदानवः ।। ७८५ ॥
दा-भाभ्यां नुः ॥ ७८६ ॥
आभ्यां नुः प्रत्ययो भवति । डुदांग्क् दाने, दानुः- गन्ता, यजमानः, वायुः, आदित्यः, दक्षिणार्थं च धनम् । भांक् दीप्तौ, भानुः सूर्यः, रश्मिश्च । चित्रभानु - अग्निः । स्वर्भानुःराहुः । विश्वभानु: - आदित्यः ।। ७८६ ।।
धेः शित् ॥ ७८७ ॥
ट्वें पाने, इत्यस्माद् नुः प्रत्ययो भवति, स च शिद् भवति, शित्त्वादाद् 'आत् संध्यक्षरस्य' इति अकारो न भवति । धेनुः-अभिनवप्रसवा गवादिः ।। ७८७ ।।
सूङः कित् ॥ ७८८ ॥
gst प्राणिगर्भविमोचने, इत्यस्मात् किद् नुः प्रत्ययो भवति । सुनुः पुत्रः ॥ ७८८ ॥