________________
सूत्र-- ६६९-७०५ ]
स्वोपज्ञोणादिगण सूत्रविवरणम्
[ ४४१
वल्लरि:- लता, वीणा, सस्यमञ्जरी च । ऋक् गतौ अररि:- कपाटम् । कृतैत् छेदने, कर्तरिः-केशादिकर्तनयन्त्रम् ॥ ६९८ ।।
मस्यसि सि जस्यङ्गि सहिभ्य-उरिः ॥ ६६६ ॥
एभ्य उरिः प्रत्ययो भवति । मसैच् परिणामे, मसुरि:- मरीचिः । असूच् क्षेपणे, असुरिः- संग्रामः । घस्लृ अदने घसुरि:- अग्निः । जसूच् मोक्षणे, जसुरिः - समाप्तिः, अशनि:, अरणिः, क्रोधश्च । अगु गतौ, अङगुरि:- करशाखा, लत्वे अङ्गुलिः । षहि मर्षणे, सहुरि :- पृथ्वी, अक्रोधनः, अनड्वान् संग्रामः, अन्धकारः, सूर्यश्च ।। ६९९ ।।
,
मुहे: कित् ।। ७०० ॥
मुहाच् वैचित्ये, इत्यस्मात् किद् उरिः प्रत्ययो भवति । मुहुरि:- सूर्यः, अनड्वांश्च
#1 900 11
धू-मृभ्यां लिक्-लिणौ ॥ ७०१ ॥
आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ भवतः । धूग्श् कम्पने, धूलिः - पांसुः । मूङ बन्धने, मौलि:- मुकुटः ।। ७०१ ।।
पाठ्यञ्जिभ्यामलिः | ७०२ ||
आभ्याम् अलिः प्रत्ययो भवति । पट गतौ ण्यन्तः, पाटलिः - वृक्षविशेषः । अञ्जोप् व्यक्त्यादौ, अञ्जलिः - पाणिपुट:, प्रणामहस्तयुग्मं च ।। ७०२ ।।
मा- शालिभ्यामोकुलि-मली ॥ ७०३ ॥
आभ्यां यथासंख्यम् ओकुलि-मलि इत्येतौ प्रत्ययौ भवतः । मां माने, मोकुलि:काकः । शल गतौ ण्यन्तः, शाल्मलिः - वृक्षविशेषः ।। ७०३ ।।
दु-पु-व-भ्यो विः ॥ ७०४ ॥
•
वः प्रत्ययो भवति । दृश् विदारणे, दवि:- तर्दृ: । पृश् पालनपूरणयो:, पर्वि:कङ्कः, हिंस्रश्च । वृग्श् वरणे, वर्विः शकटं, घात्री, काकः, श्येनश्च । ७०४ ॥
जु- शु-स्तृ-जागृ-कृ-नी-घृषिभ्यो ङित् ॥ ७०५ ॥
एभ्यो ङदु विः प्रत्ययो भवति । जुष्च् जरसि, जीवि :- वायुः, पशुः, कण्टकः, शकटः, मद्गुः, कायम्, गुल्मं, शङ्का, वृद्धः, वृद्धभावश्च । शृश् हिंसायाम्, शीविः - हिंस्र:, कृमि:, न्यङ्कुश्च । स्तग्श आच्छादने, स्तीविः - गर्विष्ठः, अध्वर्युः, भगः, तनुः, रुधिरं, भयम्, तृणजातिः, नभः, अजश्च । जागृक् निद्राक्षये, जागृविः - राजा, अग्निः, प्रबुद्धश्च । ङित्वान्न गुणः । डुकृ ंग् करणे, कृविः - रुद्रः, तन्तुवायः, तन्तुवायद्रव्यम्, राजा च । यदुपज्ञ कृवय इति पूरा पञ्चालानाचक्षते । णींग् प्रापणे, नीविः - परिधान ग्रन्थिः, मूलधनं च । घृषु संघर्षे, घृष्वः - वराहः, वायुः, अग्निश्च ।। ७०५ ।।