________________
सूत्र-६२८-६३५ ]
स्वोपज्ञोणांदिगणसूत्र विवरणम्
शकटं, शङ्खश्च । अणीचि:-वेणुः, शाकटिकश्च । दधि धारणे, दधीचिः- राजषिः। अव रक्षणादौ, अवीचिः-नरकविशेषः ॥ ६२७ ॥
वेगो डित् ॥ ६२८॥ वेंग् तन्तुसंताने, इत्यस्माद् डिद् ईचिः प्रत्ययो भवति । वींचिः-उर्मिः ॥ ६२८ ॥ वणेणित् ॥ ६२६ ॥ वण शब्दे, इत्यस्माद् णिद् ईचिः प्रत्ययो भवति । वाणीचिः-छाया, व्याधिश्च ।६२९॥ कृषि-शकिभ्यामटिः ॥ ६३०॥.
आभ्याम् अटिः प्रत्ययो भवति । कृपौड सामर्थ्य, कटिं:-नि.स्वः । शक्लूट शक्ती, शकटि:-शकट: ।। ६३०॥
श्रेर्दिः ॥६३१॥ श्रिग् सेवायाम् , इत्यस्माद् ढि: प्रत्ययो भवति । श्रेढिः-गणितव्यवहारः ।।६३१।। चमेरुच्चातः ॥ ६३२॥ चमू अदने, इत्यस्माद् ढिः प्रत्ययो भवत्यस्योकारश्च । चुण्डि:-क्षुद्रवापी ॥६३२॥ मुषेरुण चान्तः ॥ ६३३ ॥
मुषश् स्तेये, इत्यस्माद् ढिः प्रत्यय उण चान्तो भवति । मुषुण्ठिः-प्रहरणम् । उणो न गुणो विधानसामर्थ्यात् ।। ६३३ ।।
का-वा-वी-क्री-श्रि-श्रु-क्षु-ज्वरि-तूरि-चूरि-पूरिभ्यो णिः ॥ ६३४ ॥
एभ्यो णिः प्रत्ययो भवति । के शब्दे, काणिः-वैलक्ष्याननुसर्पणम् । वेंग तन्तुसन्ताने, वाणिः-व्यूतिः । वींक प्रजनादौ, वेणिः-कबरी। डुकींग्श् द्रव्यविनिमये, क्रेणि:-क्रयविशेषः । श्रिग सेवायाम् , श्रेणिः-पङक्तिः, बलविशेषश्च, श्रेणयः-अष्टादश गणविशेषाः । निपूर्वात् निश्रेणिः-संक्रमः । श्रृंट श्रवणे, श्रोणिः-जघनम् । टुक्षुक शब्दे, क्षोणिः पृथ्वी । ज्वर रोगे, जूणिः-ज्वरः, वायुः, आदित्यः, अग्निः, शरीरं, ब्रह्मा, पुराणश्च । तूरैचि त्वरायाम् , तूणिः-त्वरा, मन:, शीघ्रश्च । चूरैचि दाहे, चूणिः-वृत्तिः । पूरैचि आप्यायने, पूणिःपूरः ।। ६३४ ॥
ऋत्-घृ-सू-कृ-वृषिभ्यः कित् ॥ ६३५ ॥
ऋकारान्तेभ्यो इत्यादिभ्यश्च किद् णिः प्रत्ययो भवति । शश हिंसायाम् शीणि:-रोगः, अवयवश्च । स्तम्श आच्छादने, स्तीणिः-संस्तरः । सेचने, घृणि:-रश्मिः, ज्वाला, निदाघश्च । सृ गौ सृणि:-आदित्यः, वज्रम् , अनिलः, अबकुशः, अग्निश्च । कुंक शब्दे, कुणि:-विकलो हस्तः, हस्तविकलश्च । वृषू सेचने, वृष्णिः-वस्तः, मेषः, यदुविशेषश्च । पर्षतेरपीच्छन्त्येके । पृष्णि:-रश्मिः ॥६३५।।